________________
श्रीमूलदेवनृप
श्रीजैन कथासंग्रहः
चरित्रम्
?॥२३८॥ भाण्डं ममेदमेवास्ती-त्युक्ते तेन नृपोऽवदत् ॥ सत्यं ब्रूया न चेन्छुल्क-चौयाँ विग्रहनिग्रहः ॥२३९॥ नान्यस्यापि पुरोऽलीकं, वच्म्यहं किं पुनः प्रभो! ॥ तेनेत्युक्ते नृपोऽवादी-दिति पञ्चकुलं' प्रति ॥२४०॥ अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां सत्यवादिनः॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुरः॥२४१॥ तेषां च तोलने भार-वैषम्यादङ्ग्रिघाततः॥ वंशवेधाच्च मञ्जिष्ठा-धन्तर्मेने नृपोऽपरम्॥ २१२॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः ॥ तेभ्यो मुक्तास्वर्णरूप्य-विद्रुमादि विनिर्ययौ । २३॥ तत्प्रेक्ष्योत्पन्नकोपेना-ऽचलोऽबध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना ॥ -२४॥मुक्त्वा भटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् ॥ आरक्षकोऽपि तं बद्ध-मनैषीद्भूपसन्निधौ॥ २५॥गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूधवः॥ सार्थवाह ! किमु त्वं मां, सञ्जानासीति पृष्टवान् ?॥२४॥ सोऽवादीद्धवनोद्योतकरं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः ? ॥२०॥चाटुवाक्यैः कृतं सम्यक्, यदि वेत्सि तदा वद॥ नृपेणेत्युदितः प्रोचे-चिलस्तर्हि न वेदम्यहम् ॥२४॥ ततः पृथ्वीपतिर्देव-दत्तामाहूय तं तथा ॥ अदर्शयत्तां च वीक्ष्याऽचलोऽभूद्व्याकुलो भृशम् ॥२४९॥ ततो विलक्षं मान्यस्ते-क्षणं ह्रीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदत्तेति तं जगौ॥२५०॥
॥२१॥
BBBBBBBBBBBBB
॥२१॥
१वाणी इतिमा।