SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् ॥२२॥ 8888888888888 देवाद्विपदमाप्तस्य, कार्यमेवं त्वयाऽपि मे ॥ तदेत्युक्तस्त्वया योऽभू-न्मूलदेवोऽयमस्ति सः ॥ २५१॥ तदिदं व्यसनं वित्त-देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि, राज्ञा दीनदयालुना ॥ २५२ ॥ वीक्षापन्नोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ॥२५॥ आगसा कुपितस्तेन, विचारधवलो नृपः ॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥ २५४ ॥ नरदेवोऽवदद्देव-दत्तादेवी यदा त्वयि ॥ प्रसादमकरोन्मन्तु-र्मया सोढस्तदैव ते ॥ २५५ ॥ ततोऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ स्नपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ॥ २५६ ॥ भूपोऽपि भूरिमूल्यानि, दत्त्वा वासांसि तस्य तत् ॥ शुल्कं मुमोच सन्तो हि, द्विषामप्युपकारिणः ॥ २५७ । दूतं दत्त्वाऽऽत्मनो गन्तु-मवन्त्यां व्यसृजच्च तम् ॥ अवन्तीशो तद्वाचा, प्रवेशं तस्य दत्तवान् ।। २५८॥ विप्रो निघृणशर्माऽपि, प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णातटं मूल-देवभूपं ननाम च ॥ २५९॥ प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः ॥ अदृष्टसेवया तस्मै, ददौ ग्रामं तमेव हि ॥ २६०॥ अथान्यदा मूलदेवं, महीनाथं 'सदःस्थितम् ॥ एत्य व्यजिज्ञपन् पौरा-चौराकुलितचेतसः ॥२६१।। यच्छास्त्रेषु श्रुतं पूर्व, न तु प्रत्यक्षमीक्षितम् ॥ तद्देव चौर्यमद्यश्वः, पुरे तव भवत्यहो॥ २६२॥ १ विलयः विलखो इति मा.। २ सदः समा। ३. मुनिभ्यः। 888888888888S ॥२२॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy