________________
श्रीजैन कथासंग्रहः
॥२३॥
समं समस्त शृङ्गारै-चौरैरात्ते धनेऽधुना ॥ निर्ग्रन्थेभ्यः परं वेणिश्मश्रुणास्माकमस्ति मित् ॥ २६३ ॥ तद्देवो यततामस्मा-नस्मात्तस्करसङ्कटात् ॥ त्रातुं ददातु वा स्थानं, सुखवासाय किञ्चन ।। २६४ ॥ अथ भूपः स्फुरत्कोपः, प्रोवाचारक्षकानिति ।। रे पुरे चोरिका केयं, भवत्सु प्रभवत्स्वपि ॥ २६५ ॥ ते प्रोचुरेक एवासौ, चौरोऽस्ति न तु भूरयः ॥ परं स दुर्ग्रहोऽस्माकं मनः क्लीबात्मनामिव ॥ २६६ ॥ चौरो दैत्यवत् कुरो, न लेभे न च लप्स्यते ॥ अस्ति नः केवलं रात्री जागरो रोगवृद्धये ॥ २६७ ॥ नृपो दध्यावमीभिः किं, वराकैर्हन्त सिध्यति ॥ मयैव जेष्यते चौरः, श्रीरामेणेव रावणः ।। २६८ ॥ माधत्त तस्करभयं भवताद्भवतां धृतिः ॥ इत्युक्त्वा बहुमानेन, व्यसृजन्नागरान्नृपः ॥ २६९ ॥ स्वयं च सायमाधाय, सहायमिव साहसम् ॥ नीलाम्बरधरो ध्वान्ता'-धिदैवतमिवाचलत् ॥ २७० ॥ भ्रमन् पुरेऽभीतो वीक्षाञ्चक्रे वक्रेण चक्षुषा ॥ चौरं क्वापि न तु प्राप, क्ष्मापः पापमिवोत्तमे ।। २७१ ॥ भ्रमं भ्रमं श्रमात् खिन्नमना देवकुले क्वचित् ॥ अनाथ इव भूनाथः, शिष्ये कपटेन्द्रियः ॥ २७२ ॥ पापचण्डदोर्दण्डो, मण्डकस्तस्कराग्रणीः ॥ तावत्तत्राययौ रक्ष- इव भ्राम्यंस्तमोबलात् ॥ २७३ ॥ प्रभुः प्रेष्यमिव' क्ष्मापं', धृष्ट्वा सावज्ञमंघ्रिणा ॥ सोऽजागरयदूचे च, कोऽसि त्वमिति दुर्मतिः ॥ २७४ ॥ अकालचर्यया चौरं, ज्ञात्वा तं नृपतिः कृती ॥ "शाठ्यादूचे जन्मदूःस्थो, मठेऽस्मिन् शयितोस्म्यहम् ॥ २७५ ॥ स्नानं कूपेऽशनं
१ ध्वान्त अन्धकारः । २ भृत्यम् । ३ नृपम् । ४ पादेन । ५ कपटात् ।
C€€€€€€€€€€€€
श्रीमूलदेवनृपचरित्रम्
॥२३॥