________________
श्रीजैन कथासंग्रहः
॥२४॥
2008
शत्रा - गारे स्वापः पुनर्मठे ॥ धिग् दैवं यद्दरिद्राणामपि लोके जिजीविषा ॥ २७६ ॥ चौरः प्रोचे मयि प्राप्ते-प्येवं भोः किमु खिद्यसे ? | हस्तस्थिते सुरमणौ, कादारिद्र्यविहस्तता' ? ॥ २७७ ॥ वत्सगच्छ मया साकं, यदि सम्पदमिच्छसि ।। इत्युक्त्वा तं सहादाय, सोऽचलच्छललोचनः ।। २७८ ।। लक्ष्मीलीलारविन्देऽसौ, कस्यापीभ्यस्य मन्दिरे ॥ दत्तखात्रो मणिस्वर्ण-पेटां प्राचीकटद्बहिः ।। २७९ ।। दृष्ट्वा तच्चेष्टितं दष्टा-धरोऽपि क्ष्मापतिः क्रुधा ॥ तन्मूल-स्थानजिज्ञासुः, प्रतिचक्रे न किञ्चन ॥ २८० ॥ पेटा उवाह वाहीक - इव तास्तद्गिरा नृपः ॥ कार्यसिध्यै शठा दस्यो- रपि दास्यं प्रकुर्वते ॥ २८९ ॥ भूपेनानुगतश्चौरो, निर्गत्य नगराद्वहिः ॥ क्रीडा स्थानं यमस्येव, जीर्णोद्यानं रयादयात् ॥ २८२ ॥ तत्र नानानिकुञ्जान्तः, शिलाच्छन्नमुखं सुखम् । स भूमिगृहमुद्घाट्य, विवेश सह भूभुजा ।। २८३ ।। तत्रापश्यत्कनीमेकां, भूपो रूपवर्ती पुरः ॥ सर्वा अपि तिथि राकाः कुर्वन्ती स्वमुखेन्दुना ॥ २८४ ॥ तद्दर्शनसुधाकुण्ड - क्रीडया प्राप भूपतिः ॥ विहारभारजं स्वेदं, वमन् समधिकं सुखम् ।। २८५ ।। न वयं तस्करा एतत्तव दौःस्थ्यभिदे कृतम् ॥ तन्मुञ्च भारमित्युक्त-स्तेन पेटां नृपोऽमुचत् ।। २८६ ।। स्वसारं तत्समादाय, स्वसारं तां मलिम्लुचः ' ॥ क्षालयास्यातिथेः पादा- वित्यादिक्षलक्षधिः ।। २८७ ।। १ व्यग्रता विहस्तव्याकुलौ व्यग्रे इति श्रीहेमचन्द्रसूरयः । २ दस्युः ।
श्रीमूलदेवनृपचरित्रम्
॥२४॥