SearchBrowseAboutContactDonate
Page Preview
Page 217
Loading...
Download File
Download File
Page Text
________________ श्रीजैन कथासंग्रहः श्रीमूलदेवनृप चरित्रम् क्रौर्यनिर्जितकृत्याशा, कुकृत्याचरणे रता॥ उपकूपतटं भूप-स्यासनं समतिष्ठपत् ॥ २८८ ॥ तत्रासीनस्य सा राज्ञः, बालयन्ती मृदू पदौ ॥ विचक्षणा लक्षयन्ती, लक्षणानि व्यभावयत् ।। २८९ ॥ निपात्यते स्म कपेऽस्मिन, ये पुरा तेऽपरे जनाः ॥ अयं लोकोत्तरः कोऽपि, पुनर्नरशिरोमणिः ॥ २९० ॥ देया कामं निहत्याम, लक्षाणामुदरम्भरिम् ॥ पताका पातकावासे हा मया विश्ववामया ॥ २९१ ॥ जीवनसौ कदापि स्या-न्मम भर्तापि भाग्यतः॥ यद्वा केयं दुराशा मे, क घुकी क च भास्करः? ॥ २९२ ॥ तथाऽपिरक्षणीयोऽयं, मा भूजगदनायकम् ॥ ततस्तं सा जगौ याहि, याहि भो मा मृथा वृथा॥२९॥ जिघांसुः समये भूप-चौरं शूराग्रणीरपि॥ अपासरत्ततः स्थानात्, त्वरितत्वरितैः पदैः॥२९४॥रक्षितोऽयं मया मृत्योः, रक्ष्यं स्वस्याथ दूषणम् ॥ध्यात्वेति साऽथ पूच्चक्रे गतः सैष: ममाग्रतः ॥ २९५॥ प्राप्तोऽहरे कयासीति, प्रजल्पन् तस्कराधमः । काखड्गं करे कृत्वा, दधावे तस्य पृष्ठतः॥२९६ ॥ वीक्ष्यायातमुदस्वं तं भुत्युत्थमिव वृश्चिकम् ॥ चत्वरस्थं शिलास्तम्भ-मवष्टभ्य नृपः स्थितः ॥ २९७ ॥ कोपान्धिताक्षचौरोऽपि, समुपेत्य पुमानिति ॥ प्रान्त्या खड्गेन कदली-काण्डवत् स्तम्भमच्छिनत् ॥२९॥ तस्मिन्निवृत्ते चौराप्ति-निवृत्तात्मा नरेश्वरः॥निजं निवासमासाद्य, निशाशेषमतीयिवान् ॥२९॥ कप्रक्ष्यामि पुनश्चौर-मिति जातकुतूहलः॥राजा विनिर्ययौ राज-पाटिकाव्याजतः प्रगे॥३०॥ नपो ॥२५॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy