SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ श्रीमूलदेवनृप कथासंग्रहः चरित्रम् ॥१६॥ शालायां तत्र चास्वपीत्॥१७८॥ निशायाचान्तिमे यामे, पूर्णेन्दं निर्मलद्युतिम्॥स्वप्नेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ॥१७९॥ तदा कार्पटिकोऽप्येको-ऽद्राक्षीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छाऽन्येषां स्वप्नफलं ततः॥१८०॥ स्वप्नार्थ तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं साज्यमद्य त्वं, खण्डायुक्तं च लप्स्यसे ॥१८१॥ स च कार्पटिकः प्राप, तावताऽपि परा मुदम् ॥ मूलदेवस्तु मूढानां, नो तेषां स्वप्नमब्रवीत् ॥ १८२ ॥ सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तच्चाऽन्येषां स्वेषां न्यवेदयत् ॥ १८३॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धियां निधिः । मालिकं प्रीणयामास, कुसुमावचयादिना ॥ १८४ ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वप्नशास्त्रकोविदधाम्नि सः ॥ १८५॥ नत्वा दत्त्वा च पुष्पादि, पाठकाय न्यवेदयत् ।। मूलदेवो निजं स्वप्नं, सोऽपि हृष्टोऽब्रवीदिति ॥१८६॥ वत्स! वक्ष्याम्यहं स्वप्न-फलं तव शुभेक्षणे॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥१८७ ।। ततस्तं स्नपयित्वा च, भोजयित्वा च सादरम् ॥ उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ॥१८८॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् । तात! दत्से कथङ्कारं, ततः सोऽप्येवमालपत् ॥१८९॥ कुलं गुणाच ते वत्स!, मूत्यैव विदिता मया ॥ तदिमां मे सुतां सद्यः, पाणीकृत्य कृतार्थय॥१९०॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्यां दत्त्वावमब्रवीत् ॥ सप्तरात्रान्तरे भावी, ॥१६॥
SR No.600267
Book TitleJain Katha Sangraha Part 06
Original Sutra AuthorKalyanbodhivijay
Author
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages268
LanguageSanskrit
ClassificationManuscript
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy