Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
मृतधनं च करं च सुजीजिआ
___भिधमकब्बरभूपतिरत्यजत् ॥ १८॥ यद्वाचा कतकाभया विमलितस्वांतांबुपूरः कृपापूर्णः शाहिरनिन्द्यनीतिवनिताक्रो[डीकृतात्मा]त्यजत् ।
शुल्कं . त्य[क्तुम]शक्यमन्यधरणीराजां जनप्रीतये - तद्वान्नीडजपुंजपूरुषपशृंश्चामूमुचद्भूरिशः ॥ १९ ॥ यद्वाचां निचयैर्मुधाकृतसुधास्वा[ दैर] मंदैः कृताल्हादः श्रीमदकब्बर: क्षितिपतिः संतुष्टिपुष्टाशयः । त्यक्त्वा - तत्करमर्थसार्थमतुलं येषां । मनःप्रीतये जैनेभ्यः प्रददौ च तीर्थतिलकं शत्रुजयोर्वीधरम् ॥ २० ॥ यद्वाग्भिर्मुदितश्चकार 'करुणास्फूजन्मनाः पौस्तकं भाण्डागारमपारवाङ्मयमयं वेश्मेव वाग्दैवतम् । यत्संवेगभरेण भावितमतिः शाहि: । पुनः प्रत्यहं पूतात्मा बहु मन्यते भगवतां सद्दर्शनो दर्शनम् ॥ २१ ॥ यद्वाचा तरणित्विषेव कलितोल्लासं मन:पंकजं विभ्रच्छाहिअकब्बरो व्यसनधीपाथोजिनीं चंद्रमाः । जज्ञे . श्राद्धजनोचितैश्च सुकृतैः सर्वेषु देशेष्वपि विख्याताऽऽर्हतभक्तिभावितमतिः श्रीश्रेणिकक्ष्मापवत् ॥ २२ ॥ लुंपाकाधिपमेघजीऋषिमुखा हित्वा कुमत्याग्रह भेजुर्यच्चरणद्वयीमनुदिनं भुंगा इवांभोजिनीम् । उल्लासं. गमिता यदीयवचनैर्वैराग्यरंगोन्मुखैर्जाता: स्वस्वमतं विहाय बहवो लोकास्तपासंज्ञकाः ॥ २३ ॥ आसीच्चैत्यविधापनादिसुकृतक्षेत्रेषु वित्तव्ययो भूयान् यद्वचनेन गूर्जरधरामुख्येषु देशेष्वलम् । यात्रा गूर्जरमालवादिकमहादेशोद्भवैर्भूरिभिः संघैः सार्द्धमृषीश्वरा विदधिरे शत्रुजये ये गिरौ ॥ २४॥
(OM
UCKNOOLOG
LOG
TOGGY VOODOODHOOL

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356