Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 317
________________ तेषां · वंशे क्रमतस्तपःक्रियाज्ञानशुद्धिपरिकलितः । रसबाणमिते पट्टे संजातः सुविहितोत्तंसः ॥ ६ ॥ 'आनन्दविमलसूरिः श्रुतोऽपि चित्ते करोति मुदमतुलाम् । __कुमतांधकूपमग्नं स्वबलाज्जगदुद्धृतं येन ॥ ७॥ तत्पट्टे महिमभरख्याताः श्रीविजयदानसूरीशाः । येभ्यः समस्तविधिना प्रससार तपागणः सम्यक् ॥ ८ ॥ तेषां पट्टे प्रकटाः शांतरसापूर्णहृदयकासाराः । श्रीहीरविजयगुरवः प्रभवोऽभुवंस्तपागच्छे ॥ ९ ॥ साहिश्रीमंदकब्बरस्य हृदयोर्त्यां यः पुरा रोपितः संसिक्तोऽपि च यैर्वचोऽमृतरसैः कारुण्यकल्पद्रुमः । दत्तेऽद्यापि फलान्यमारिपटहोद्घोषादिकानि स्फुटं . श्रीशजयतीर्थमुक्तकरतासन्मानमुख्यानि च ॥ १० ॥ तेषां पट्टे प्रकटनहंसाः श्रीविजयसेनसूरिवराः । संप्रति जयन्ति वाचकबुधमुनिगणग्रन्थपरिकरिताः ॥ ११ ॥ .: तर्कव्यारकरणादिशास्त्रनिबिडाभ्यासेन गर्वोद्धरा ___ ये कुर्चालसरस्वतीतिबिरुदं स्वस्मिन्वहंतेऽनिशम् । ... काचोयुक्तिभिरेव यैः स्फुटतरं सर्वेऽपि ते वादिनः . . . साहिश्रीमदकब्बरस्य पुरतो वादे जिताः स्वोजसा ॥ १२ ॥ तेषां चरणसरोरुहमकरंदास्वादलालसः सततम् । . .संघो जयतु चतुर्धा भूयांसि महांसि कुर्वाणः ॥ १३ ॥ इतश्चगूर्जरमंडलमंडनमभयं वडनगरमस्ति तत्रासीत् । नागरलघुशाखायां भद्रसिआणाभिधे गोत्रे ॥ १४ ॥ गांधिदेपाल इति प्रसिद्धनामा सुधर्मकर्मरतः ।। तत्सुत अलुआह्वानस्तस्य सुतो लाडिकाभिधया ॥ १५ ॥ २७५

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356