Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
पत्नीति धर्मपत्नी शीलालंकारधारिणी तस्य । तत्कुक्षिभुवौ बाढुक-गंगाधरनामकौ तनयौ ॥ १६ ॥ तत्रापि बाढुआख्यः सुभाग्यसौभाग्यदानयुतः ।। धैर्योदार्यसमेतो जातो व्यवहारिगणमुख्यः ॥ १७ ॥ आद्यस्य पोपटीति च हीरादेवी द्वितीयका भार्या ।। ताभ्यां वराननाभ्यां सुतास्त्रयः सुषुविरें सुगुणाः ॥ १८ ॥ आद्यसुतः कुंवरजीति नामा सुपात्रदानेषु रतो विशेषात् । मार्गप्रवृत्तेर्गुणसंग्रहाच्च पितुर्यशो वर्द्धयति प्रकामं ॥ १९॥ जातौ परस्यामथ धर्मदासः सुवीरदासश्च सुतौ वरेण्यौ । अथान्यदार्थार्जनहेतेवेऽसौ स्थानान्तरान्वेषणमानसोऽभूत् ॥ २० ॥ श्रीस्तंभनाधीशजिनेशपार्श्वप्रसादसंपादितसर्वसौख्यम् । त्रंबावतीति प्रति नामधेयं श्रीस्तंभतीर्थं नगरं प्रसिद्धम् ॥ २१ ॥ स बाहुआख्यः स्वसुखाय तत्र वसन्ननेकैः सह बन्धुवगैः । सन्मानसंतानधनैर्यशोभिर्दिने दिने वृद्धिमुपैति सम्यक् ॥ २२ ॥ श्रीहीरसूररुपदेशलेशं निशम्य तत्त्वावगमेन सद्यः । मिथ्यामतिं यः परिहाय पूर्वं जिनेन्द्रधर्मे दृढवासनोऽभूत् ॥ २३ ॥ पूर्वाजितप्रबलपुण्यवशेन तस्य ।
सन्न्यायमार्गसुकृतानुगतः प्रवृत्तेः । पापप्रयोगविरतस्य गृहे समस्ता
भेजुः स्थिरत्वमचिरादपि संपदो यः ॥ २४ ॥ सधर्मसाधर्मिकपोषणेन मुमुक्षुवर्गस्य च तोषणेन ।
दीनादिदानैः स्वजनादिमानैः स्वसंपदस्ता: सफलीकरोति ॥ २५ ॥ OOOOpue] OOOOO

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356