Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
जगद्गुरुश्रीहीरविजयसूरिरचितं ॥ श्री वर्धमान-जिन-स्तोत्रम्॥ भक्त्या नमस्कृत्य गुरुं गुरुं गुरुं बुद्ध्या सतां सर्वदया दयादया। भास्वत्प्रभावं विभयाभयाभया मुनित्सतारं सुदरं दरंदरम् ॥१॥ श्री वीरमर्हन्तमहो महोमहोदयं स्तुवं भक्तहितं हितं हि तम्। देवाधिदेवं सुमनोमनोमनोहारानुभावं सकलं कलं कलम् ॥ २ ॥ युग्मम् ॥ श्रीत्रैशलेयोऽवृजिनो जिनो जिनोनगाधिराजोऽममतामतामताः । देयादलं वः परमारमारमापीयूषगीर्देवरतीरतीरतगीः ॥ ३ ॥ श्रीज्ञातपुत्रं विरतारतारतासिद्धयै, श्रयध्वं समयामयामया । सदा समाद्यैर्वसुधासुधासुधाकरोपमं साधुपरंपरं परम् ॥४॥ श्रीवर्द्धमानोऽसुमतो मतोऽमतो भवोऽवताद् वश्च कलं कलं कलम्। तीर्थतसत्रासदयो दयोदयोऽहितोऽपि कामं जलतालतालता ॥ ५॥
DO
IDOMMODIOMDC२०.DONOMDCNep

Page Navigation
1 ... 345 346 347 348 349 350 351 352 353 354 355 356