Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 345
________________ अव्ययपदकृतंवासः वासवकृतनिजदासः । प्रणतिमहं विदधे भाषितधर्मविधे रे जिन जिन भाषितधर्मविधे ! ॥१५॥ अथ काव्यम् । छन्दः ॥ स्वामिँस्त्वद्वदनाकलंकशशिनं दृष्ट्वैव नित्योदयं चंद्रः किं भ्रमणं करोति गगनेऽनाभाभयव्याकुलः । नैवं चेत् कथमातनोति विपद (दं) देव ! प्रतापस्य ते मित्रोष्णत्विषि बन्धुपद्मविततेर्लब्धावकाशो ध्रुवम् ॥ १६॥ अथ फाग, संस्कृतरागः ॥ अमितमहामहिमालय पालय परमगुरो ! । मां भवतो भवभयतो भयतोदारगुरो ॥ १७ ॥ कुमतमतङ्गजवारण-वारणवैरिनिभ ! धि (धै ) र्यतया जितमन्दर ! सुन्दरकनकनिभ ! ॥ १८ ॥ देवपतिस्मृतनामा नामानीशीपते ! । जय जय दत्तसुंदर्शन ! दुर्शनंतोऽसुं (सु) मते ॥ १९॥ चरणयुगं शिवशरणं शरणं साधुपते ! । पततां भवनीराकर-याकर ! (?) विमलमते ! ॥ २० ॥ अथ काव्यभासाः ॥ तस्ते विमलक्रमाम्बुजयुगोपास्तेर्यथोक्तं फलं सम्यग्· ये सुधियो वदन्ति विधिना कुर्युश्च भक्तिं तथा । तेषां जन्म फलेग्रहीह कृतिनां गेयं च पुण्यात्मना - · मन्येषामफलं भदन्त ! समभूत् स्वर्द्धेनुं (नु ) वद् दुर्लभम् ॥ २१॥ अथ त्रिपदी ॥ भावि तव तनुं (नु) लता यांन (यान ?) विश्वजनता रे । सकलकलाकलिता रे किमियमिव नवसुरलता रे ॥ २२ ॥ ३०३

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356