________________
अव्ययपदकृतंवासः वासवकृतनिजदासः । प्रणतिमहं विदधे भाषितधर्मविधे रे
जिन जिन भाषितधर्मविधे ! ॥१५॥
अथ काव्यम् । छन्दः ॥ स्वामिँस्त्वद्वदनाकलंकशशिनं दृष्ट्वैव नित्योदयं चंद्रः किं भ्रमणं करोति गगनेऽनाभाभयव्याकुलः । नैवं चेत् कथमातनोति विपद (दं) देव ! प्रतापस्य ते मित्रोष्णत्विषि बन्धुपद्मविततेर्लब्धावकाशो ध्रुवम् ॥ १६॥
अथ फाग, संस्कृतरागः ॥
अमितमहामहिमालय पालय परमगुरो ! ।
मां भवतो भवभयतो भयतोदारगुरो ॥ १७ ॥
कुमतमतङ्गजवारण-वारणवैरिनिभ !
धि (धै ) र्यतया जितमन्दर ! सुन्दरकनकनिभ ! ॥ १८ ॥ देवपतिस्मृतनामा नामानीशीपते ! ।
जय जय दत्तसुंदर्शन ! दुर्शनंतोऽसुं (सु) मते ॥ १९॥
चरणयुगं शिवशरणं शरणं साधुपते ! ।
पततां भवनीराकर-याकर ! (?) विमलमते ! ॥ २० ॥
अथ काव्यभासाः ॥
तस्ते विमलक्रमाम्बुजयुगोपास्तेर्यथोक्तं फलं
सम्यग्· ये सुधियो वदन्ति विधिना कुर्युश्च भक्तिं तथा । तेषां जन्म फलेग्रहीह कृतिनां गेयं च पुण्यात्मना -
· मन्येषामफलं भदन्त ! समभूत् स्वर्द्धेनुं (नु ) वद् दुर्लभम् ॥ २१॥
अथ त्रिपदी ॥
भावि तव तनुं (नु) लता यांन (यान ?) विश्वजनता रे । सकलकलाकलिता रे किमियमिव नवसुरलता रे ॥ २२ ॥
३०३