Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
श्रीहीरविजयसूरिकृत चतुरर्थी वीरस्तुतिः
अज्ञातकर्तृकृता अवचूरिः विज्ञानपारगतवालकवीरमान, मातंगमुक्तममतागमदानतारि । कामं तमोहरतरो परसत्पयोंजे, सूरीश हीरविजयस्य भव प्रसन्नः॥१॥ .. अवचूरिः ।
॥ श्रीभगवत्यै नमः ॥ व्याख्या :- विज्ञा: निपुणा: ना: प्राणिनः तान् पालयसि रक्षसीति विज्ञानपाल: "रलयो रैक्यत्वात्" तत्संबोधने, तथा गता बाला "बवयो-रलयोरैक्यत्वात्" केशाः विद्यन्ते यस्य स गतबालो व्रते गृहीते कचोत्पत्त्यभावत्वात् ! स्वार्थे क प्रत्यये गतबालकस्तसंबो० तथा मान(नो) गर्वस्तदेव मातंगो हस्ती अत्युत्कटत्वात् तेन मुक्तो वर्जितः । तथा ममता ममत्वं तां गमयसि निवारयसीति ममतागमः तत्संबो० तथा दं वैराग्यं विद्यते यस्य स दस्तं सं० तथा आनतः प्रणता अरयो वैरिणो विद्युते यस्य स आनतारिस्तसं० तथा तमोऽज्ञानं अतिशयेन हरसीति तमोहरतरः तत्संबो० न विद्यते परे वैरिणो यस्य सोऽपरः तत्संबो० तथा सत् विद्यमानं पयोजं कमलं विद्यते यत्र सत्पयोजस्तत्संबो० हस्तपादादिषु कमलाद्या कमला(का)रत्वात्, तथा ईः लक्ष्मीस्तं सूते इति ईसू स्तत्संबो० तथा हे हीर स्वामिन् ! हि निश्चितं ई लक्ष्मी (तां) रासीति हीरस्तत्संबो० तथा नास्ति भवः संसारो यस्य स अभवस्तत्संबो० एवं विध हे वीर हे वर्धमान त्वं कामं अभिलाषस्तत् जयसि विजयसे इति क्रियाकारकसंबंधः । कथंभूतं कामं वरकलहो विद्यते यत्र तद्विकलहकर्तृत्वात् कथंभूतस्त्वं प्रसन्नः नुम इति । -
इति वीररस्तुतिः व्याख्या :- (द्वितीया) वि विशिष्टं ज्ञानं विद्यते यस्य स विज्ञानस्तत्संबो० कं सुखं विद्यते यस्य स कस्तत्सं० तथा हे वीर हे शूर तथा हे मानो गर्वस्तद्रूपो यो
२९५ | MOLTOL

Page Navigation
1 ... 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356