Book Title: Hir Swadhyaya Part 02
Author(s): Mahabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
शोभन्ते देवकुलिकाः सप्तचैत्येऽत्र शोभनाः । सप्तर्षीणां प्रभुपास्त्यै सद्विमाना इवेयुषाम् ॥ ४३
" द्वौ द्वारपालौ यत्रौच्चैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्श्वसेवार्थं किमितौ पती ॥ ४४ ॥
पञ्चविंशतिरुत्तङ्गा भान्ति मङ्गलर्मूत्तयः I प्रभुपार्श्वे स्थिताः पञ्चव्रतानां भावाना इव ॥ ४५ ॥ भृशं भूमिगृहं भाति यत्र चैत्ये महत्तरम् । किं चैत्यश्रीदिदृक्षार्थमितं भवनमासुरम् ॥ ४६ || यत्र भूमिगृहे भाति सौपानी पञ्चविंशतिः । मार्गालिरिव दुरितक्रियातिक्रान्तिहेतवे
॥
४७ ||
1
संमुखो भाति सोपानोत्तारद्वारिद्विपाननः अन्तः प्रविशतां विघ्नविध्वंसाय किमीय [ यि] वान् ॥ ४८ ॥
||
यद्भाति दशहस्तोच्चं चतुरस्रं महीगृहम् । दशदिक्सम्पदां स्वैरोपवेशायेव. मण्डपः 11 8911
षड्विंशतिर्विबुधवृन्दवितीर्णहर्षा
राजन्ति देवकुलिका इह भूमिधानि ।
आद्यद्वितीयदिवनाथरवीन्दुदेव्यः
श्रीवाग्युताः प्रभुनमस्कृतये किमेताः ॥ ५० ॥
द्वाराणि सुप्रपञ्चानि पञ्च भान्तीह भूगृहे । · निघत्सवोऽहोहरिणान् धर्म्मसिंहमुखा इव ॥ ५१ ॥
द्वौ द्वास्थौ द्वारदेशस्थौ राजतो भूमिधामनि । मूर्तिमन्तौ चमरेन्द्र धरणेन्द्राविव स्थितौ ॥
॥ ५२ ॥
चत्वारश्चमरधरा राजन्ते यत्र भूगृहे I प्रभुपार्श्वे समायाता धर्म्मास्त्यागादयः किमु ॥ ५३ ॥
२६९

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356