SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ शोभन्ते देवकुलिकाः सप्तचैत्येऽत्र शोभनाः । सप्तर्षीणां प्रभुपास्त्यै सद्विमाना इवेयुषाम् ॥ ४३ " द्वौ द्वारपालौ यत्रौच्चैः शोभेते जिनवेश्मनि । सौधर्मेशानयोः पार्श्वसेवार्थं किमितौ पती ॥ ४४ ॥ पञ्चविंशतिरुत्तङ्गा भान्ति मङ्गलर्मूत्तयः I प्रभुपार्श्वे स्थिताः पञ्चव्रतानां भावाना इव ॥ ४५ ॥ भृशं भूमिगृहं भाति यत्र चैत्ये महत्तरम् । किं चैत्यश्रीदिदृक्षार्थमितं भवनमासुरम् ॥ ४६ || यत्र भूमिगृहे भाति सौपानी पञ्चविंशतिः । मार्गालिरिव दुरितक्रियातिक्रान्तिहेतवे ॥ ४७ || 1 संमुखो भाति सोपानोत्तारद्वारिद्विपाननः अन्तः प्रविशतां विघ्नविध्वंसाय किमीय [ यि] वान् ॥ ४८ ॥ || यद्भाति दशहस्तोच्चं चतुरस्रं महीगृहम् । दशदिक्सम्पदां स्वैरोपवेशायेव. मण्डपः 11 8911 षड्विंशतिर्विबुधवृन्दवितीर्णहर्षा राजन्ति देवकुलिका इह भूमिधानि । आद्यद्वितीयदिवनाथरवीन्दुदेव्यः श्रीवाग्युताः प्रभुनमस्कृतये किमेताः ॥ ५० ॥ द्वाराणि सुप्रपञ्चानि पञ्च भान्तीह भूगृहे । · निघत्सवोऽहोहरिणान् धर्म्मसिंहमुखा इव ॥ ५१ ॥ द्वौ द्वास्थौ द्वारदेशस्थौ राजतो भूमिधामनि । मूर्तिमन्तौ चमरेन्द्र धरणेन्द्राविव स्थितौ ॥ ॥ ५२ ॥ चत्वारश्चमरधरा राजन्ते यत्र भूगृहे I प्रभुपार्श्वे समायाता धर्म्मास्त्यागादयः किमु ॥ ५३ ॥ २६९
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy