SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ भाति भूमिगृहे मूलगर्भागारेऽतिसुन्दरे । मूर्त्तिरादिप्रभोः सप्तत्रिंशदंगुलसंमिता ॥ ५४ ॥ श्रीवीरस्य त्रयस्त्रिंशदङ्गुला मूर्त्तिरुत्तमा 1 श्रीशान्तेश्च सप्तविंशत्यङ्गुला भाति भूगृहे ॥ ५५ ॥ यत्रोद्धता धराधाम्नि शोभन्ते दश दन्तिनः । युगपज्जिनसेवायै दिशामीशा इवाययुः ॥ ५६. यत्र भूमिगृहे भान्ति स्पष्टमष्ट मृगारयः T भक्तिभाजामष्टकर्म्मगजान् हन्तुमिवोत्सुकाः ॥ ५७ ॥ श्रीस्तम्भतीर्थपूर्भूमिभामिनीभालभूषणम् 1 चैत्यं चिन्तामणेर्वीक्ष्य विस्मयः कस्य नाभवत् ॥ ५८ ॥ . एतौ नितांतमतनु तनुतः प्रकाशं यावत् स्वयं सुमनसां पथि, पुष्पदन्तौ । श्रीस्तम्भतीर्थधरणीरमणीललामं तावच्चिरं जयति चैत्यमिदं मनोज्ञम् ॥ ५९ ॥ श्रीलाभविजयपण्डितालिकैः समशोधि बुद्धिधनधुर्यैः । लिखिता च कीर्त्तिविजयाभिधेन गुरुबान्धवेन मुदा ॥ ६० ॥ वर्णिनीव गुणाकीर्णा सदलङ्कृतिवृत्तिभाग् । एषा प्रशस्तिरुत्कीर्णा श्रीधरेण सुशिल्पिना ॥ ६१ ॥ श्रीकमलविजयकोविदशिशुना विबुधेन हेमविजयेन ! रचिता प्रशस्तिरेषा कनीव सदलङ्कृतिर्जयति ॥ ६२ ॥ इति श्री परीक्षक प्रधान प० वजिआ प० राजिआनामसहोदरनिर्मापितश्रीचिन्तामणिपार्श्वजिनपुङ्गवप्रासादप्रशस्तिः सम्पूर्णा । भद्रंभूयात् ॥ ओं नमः । श्रीमद्विक्रमातीत संवत् १६४४ वर्षे प्रवर्त्तमानशाके १५०९ गंधारीय प० जसिआ तद्भार्या बाई जसमादे सम्प्रति श्रीस्तम्भतीर्थवास्तव्य तत्पुत्र २७०
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy