SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ मृतधनं च करं च सुजीजिआ ___भिधमकब्बरभूपतिरत्यजत् ॥ १८॥ यद्वाचा कतकाभया विमलितस्वांतांबुपूरः कृपापूर्णः शाहिरनिन्द्यनीतिवनिताक्रो[डीकृतात्मा]त्यजत् । शुल्कं . त्य[क्तुम]शक्यमन्यधरणीराजां जनप्रीतये - तद्वान्नीडजपुंजपूरुषपशृंश्चामूमुचद्भूरिशः ॥ १९ ॥ यद्वाचां निचयैर्मुधाकृतसुधास्वा[ दैर] मंदैः कृताल्हादः श्रीमदकब्बर: क्षितिपतिः संतुष्टिपुष्टाशयः । त्यक्त्वा - तत्करमर्थसार्थमतुलं येषां । मनःप्रीतये जैनेभ्यः प्रददौ च तीर्थतिलकं शत्रुजयोर्वीधरम् ॥ २० ॥ यद्वाग्भिर्मुदितश्चकार 'करुणास्फूजन्मनाः पौस्तकं भाण्डागारमपारवाङ्मयमयं वेश्मेव वाग्दैवतम् । यत्संवेगभरेण भावितमतिः शाहि: । पुनः प्रत्यहं पूतात्मा बहु मन्यते भगवतां सद्दर्शनो दर्शनम् ॥ २१ ॥ यद्वाचा तरणित्विषेव कलितोल्लासं मन:पंकजं विभ्रच्छाहिअकब्बरो व्यसनधीपाथोजिनीं चंद्रमाः । जज्ञे . श्राद्धजनोचितैश्च सुकृतैः सर्वेषु देशेष्वपि विख्याताऽऽर्हतभक्तिभावितमतिः श्रीश्रेणिकक्ष्मापवत् ॥ २२ ॥ लुंपाकाधिपमेघजीऋषिमुखा हित्वा कुमत्याग्रह भेजुर्यच्चरणद्वयीमनुदिनं भुंगा इवांभोजिनीम् । उल्लासं. गमिता यदीयवचनैर्वैराग्यरंगोन्मुखैर्जाता: स्वस्वमतं विहाय बहवो लोकास्तपासंज्ञकाः ॥ २३ ॥ आसीच्चैत्यविधापनादिसुकृतक्षेत्रेषु वित्तव्ययो भूयान् यद्वचनेन गूर्जरधरामुख्येषु देशेष्वलम् । यात्रा गूर्जरमालवादिकमहादेशोद्भवैर्भूरिभिः संघैः सार्द्धमृषीश्वरा विदधिरे शत्रुजये ये गिरौ ॥ २४॥ (OM UCKNOOLOG LOG TOGGY VOODOODHOOL
SR No.005849
Book TitleHir Swadhyaya Part 02
Original Sutra AuthorN/A
AuthorMahabodhivijay
PublisherJinshasan Aradhana Trust
Publication Year1998
Total Pages356
LanguageGujarati
ClassificationBook_Gujarati
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy