Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 349
________________ हरिवंशपुराणं । ७३२ षष्टितमः सर्गः । विपुलोपगता ये ते बोद्धव्या भव्यदेहिनां । वादिनोऽपि च तावति सहस्राणीष्टवादिनः || ३७४ || सुमते सहखे तु चतुःशत्यपि पूर्विणः । द्वे लक्षे शिक्षका दृश्याश्चतुः पंचाशदेव च ॥ ३७५ ॥ सहस्राण्यभियुक्तानि पंचाशच्च शतत्रयं । एकादशसहस्राणि विमलावधयस्तथा ॥ ३७६ ॥ त्रयोदशसहस्राणि केवलज्ञानदृष्टयः । अष्टादशसहस्राणि चतुःशत्यपि वैक्रियाः ||३७७॥ दृश्या दशसहस्राणि विपुलाप्ताश्चतुःशती । तावतो वादिनस्तेभ्यः सर्वे पंचाशताधिकाः ॥ ३७८ ॥ पद्माभस्य सहस्रे द्वे शतानि त्रीणि पूर्विणः । लक्षे द्वे शिक्षकाः षष्टिसहस्राणि नवापि च ॥ ३७९ ॥ ज्ञेया दशसहस्राणि मुनयोऽवधिलोचनाः । द्वादशाष्टशतैर्युक्ताः सहस्राण्याप्त केवलाः || ३८० || षोडशैव सहस्राणि त्रिशती वैक्रिया नव । वादिनो विपुलाप्ताः षट् शत्यामा दश तानि वै ॥ ३८१ ॥ सह सुपार्श्वस्य त्रिंशता पूर्विणश्चतुः । चत्वारिंशत्सहस्राणि लक्षे नवशतैः सह ॥ ३८२॥ शिक्षका विंशतिः प्राप्ताः सहस्राणि नवावधिं । एकादश सहस्राणि त्रिशती केवलान्विताः ॥ ३८३ ॥ शतं पंचाशता पंच सहस्राणि दशापि च । वैक्रियाविपुलाद्याः षट् शती नवसहस्रकैः || ३८४|| वादिनोष्टसहस्राणि ततचंद्रप्रभस्य तु । पूर्विणो द्वे सहस्रे तु शैक्षालक्षे चतुःशती ॥ ३८५ ॥ संघावष्टसहस्राणि पृथक सविपुलावधी । देशकेवलिनस्तानि वैक्रियास्तु चतुःशती ।। ३८६ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426