Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 398
________________ ७८१ हरिवंशपुराणं । चतुःषष्टितमः सर्गः। त्रयोत्र भ्रातरस्तेऽपि जिनशासनभाविताः। गृहधर्मरता जाता धर्मकामार्थसेविनः ॥ ८॥ भिक्षाकालेऽन्यदा तेषां गृहं धर्मरुचियेतिः । धमेपिंड इवाखंडः प्रविष्टश्चंद्रचर्यया ॥९॥ प्रतिगृह्य तमुत्थाय सोमदत्तो यमीश्वरं । कार्यव्यग्रतया दाने नागश्रियमयोजयत् ॥ १० ॥ सा स्वपापोदयात्साधौ कोपावेशवशाऽददात् । विषान्नमेष सन्यासकारी सर्वार्थसिद्धिमैत् ॥११॥ नागश्रीदुष्कृतं ज्ञात्वा ते त्रयोऽपि सहोदराः । दीक्षां वरुणगुर्वते निर्विनाः प्रतिपेदिरे ॥ १२ ॥ धनश्रीश्चापि मित्र श्रीगुणवत्यार्यिकांतिके । अदीक्षिषातां निःशेषभववासविषादतः ॥१३॥ ज्ञानपंचकसिद्धयै ते दर्शनत्रिकशुद्धये । चारित्रतपसां शुद्धयै प्रवृत्ताश्चरणोद्यताः ॥ १४ ॥ स्यात्सामायिकचारित्रं सर्वत्र समभावकं । सर्वसावधयोगस्य प्रत्याख्यानमखंडितं ॥ १५ ॥ स्वप्रमादकृतानर्थप्रबंधप्रतिलोपने | सम्यक् प्रतिक्रिया या सा छेदोपस्थापना मता ॥ १६ ॥ विशिष्टा परिहारेण शुद्धिर्यत्र प्रतिष्ठिता । परिहारविशुद्धयाख्यं चारित्रं तत्प्रकथ्यते ॥ १७ ॥ संपरायाः कषायास्तु यत्र ते सूक्ष्मवृत्तयः । तत्सूक्ष्मसांपरायाख्यं चारित्रं पापनोदनं ॥ १८ ॥ यथाख्यातमथाख्यातमिति वा परिभाषितं । सुशांततीक्ष्णमोहं तच्चारित्रं मोक्षसाधनं ॥ १९ ॥ तपः षोढा भवेद्वाह्यमथानशनपूर्वकं । अभ्यंतरं तपः पोढा प्रायश्चित्तादिकं मतं ॥ २० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426