Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
८०५
हरिवंशपुराणं ।
षट्रषष्ठितमः सर्गः । ग्रहोरगा भूतपिशाचराक्षसा हितप्रवृत्तौ जनविनकारिणः । जिनेशिनां शासनदेवतागणाः प्रभावशक्क्याथ समं श्रयंति ते ॥ ४५ ॥ प्रकाममाकांक्षितकामसिद्धयः प्रसिद्धधर्मार्थविमोक्षलब्धयः । भवंति तेषां स्फुटमल्पयत्नतः पठति भक्त्या हरिवंशमत्र ये ॥ ४६ ।। निवार्यमात्सर्यमवार्यवीर्यया धिया सुधैर्योर्जितया जिनादराः । अनार्यवर्याः सहिताः सपर्यया पुराणमायोः प्रथमं तु विष्टपे ॥ ४७ ॥ किं मेऽथवा प्रार्थनया यतस्ततः स्वभावतो विश्वभरक्ष्माविदः । पयोधरोन्मुक्तमिवांबुभूधरा विधाय मूर्ध्नि प्रथमं तु भूतले ॥ ४८ ॥ सुपृष्टमुत्सृष्टमुदात्तशब्दकैनवं पुराणं च पुराणवारि सत् । महाभ्रकूलैजनिता सरित्कुलैश्चतुःसमुद्रातमिदं प्रतन्यते ॥ ४९ ॥ जयंति देवाः सुरसंघसेविताः प्रजातिशांतिप्रदशांतशासनाः। विशुद्धकैवल्यविनिद्रदृष्टयो सुदृष्टतत्वा भुवने जिनेश्वराः ॥ ५० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/a1b9305ea5d774cfa76310a61bd437fdb1b70f05743116e88b8257808d09dc3f.jpg)
Page Navigation
1 ... 420 421 422 423 424 425 426