Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं.।
षट्षष्ठितमः सर्गः। तपोमयीं कीर्तिमशेषदिक्षु यः क्षिपन्बभौ कीर्तितकीर्तिषणकः । तदनशिष्येण शिवाग्रसौख्यभागरिष्टनेमीश्वरभक्तिभाविना ।। स्वशक्तिभाजा जिनसेनमूरिणा धियाल्पयोक्ता हरिवंशपद्धतिः ॥ ३३ ॥ यदत्र किंचिद्रचितं प्रमादतः परस्परव्याहृतिदोषदृषितं । तदप्रमादास्तु पुराणकोविदाः सृजंतु जंतुस्थितिशक्तिवेदिनः ॥ ३४॥ प्रशस्तवंशो हरिवंशपर्वतः क मे मतिः काल्पतराल्पशक्तिका । अनेन पुण्यप्रभवस्तु केवलं जिनेंद्रवंशस्तवनेन वांछितः ॥ ३५ ॥ न काव्यबंधव्यसनानुबंधतो न कीर्तिसंतानमहामनीषया । न. काव्यगर्वेण न चान्यवीक्ष्यया जिनस्य भक्त्यैव कृता कृतिर्यथा ॥ ३६ ॥ जिनाश्चतुर्विंशतिरत्र कीर्तिताः सुकीर्तयो द्वादश चक्रवर्तिनः । नवत्रिधा सीरिहरिप्रतिद्विषस्त्रिषष्ठिरित्थं पुरुषाः पुराणगाः ॥ ३७॥ अवांतरेऽनेकशतानि पार्थिवा महीचरा व्योमचराश्च भूरिशः।। क्षितो चतुर्वगेफलोपभोगिनः पुराणमुख्यत्र यशस्विनस्तुताः ।। ३८ ॥ १ नवान्यदीर्घ्यया इति खपुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/6f9ddb473aab7331b9ff8064a1205cee2e15431423a4537784ea855c517bf7a1.jpg)
Page Navigation
1 ... 418 419 420 421 422 423 424 425 426