Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 423
________________ हरिवंशपुराणं । ८०६ जयत्वजय्या जिनधर्मसंततिः प्रजा स्विह क्षेमसुभिक्षमस्त्विह । सुखाय भूयात्प्रतिवर्षवर्षणैः सुजातसस्या वसुधासुधारिणां ॥ ५१ ॥ शाकेष्वब्दशतेषु सप्तसु दिशं पंचोत्तरेषूत्तरां पातींद्रायुधनानि कृष्णनृपजे श्रीवल्लभे दक्षिणां । पूर्वी श्रीमदतिभूभृति नृपे वत्सादिराजे परां शौर्याणामधिमंडलं जययुते वीरेवरोहेऽवति ॥५२॥ कल्याणैः परिवर्धमानविपुल श्रीवर्धमाने पुरे श्रीपार्श्वलयनन्नराजवसतौ पर्याप्तशेषः पुरा । पश्चादोस्तटिकाप्रजाप्रजनितप्राज्याचेनावचने शांतेः शांतगृहे जिनस्य रचितो वंशो हरीणामयं ५३ व्युत्सृष्टाप र संघ संततिबृहत्पुन्नाटसंघान्वये प्राप्तः श्रीजिनसेनसूरिकविना लाभाय बोधे पुनः । दृष्टोर्यं हरिवंश पुण्यचरितः श्रीपर्वतः सर्वतो व्याप्ताशामुखमंडलः स्थिरतरः स्थेयात् पृथिव्यां चिरं ॥ इति “अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य कृतौ गुरुपादकमलवर्णनोनाम षट्षष्ठितमः सर्गः । इति श्रीहरिवंशपुराणं सम्पूर्ण । १ श्रीपार्श्वतः इत्यपि पाठः । Jain Education International षष्टितमः सर्गः । For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 421 422 423 424 425 426