Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 418
________________ हरिवंशपुराणं। ८०१ षट्षष्ठितमः सर्गः। तथैव च श्रेणिकपूर्वभूभतः प्रकृत्य कल्याणमहं सहप्रजाः। प्रजग्मुरिंद्राश्च सुरैर्यथायथं प्रयाचमाना जिनबोधिमर्थिनः ॥ २० ॥ ततस्तु लोकः प्रतिवर्षमादरात्प्रसिद्धदीपालिकयात्र भारते । समुद्यतः पूजयितुं जिनेश्वरं जिनेंद्रनिर्वाणविभूतिभक्तिभाक् ॥ २१ ॥ त्रयः क्रमाकेवलिनो जिनात्परे द्विषष्ठिवर्षान्तरभाविनोऽभवन् । ततःपरे पंच समस्तपूर्विणस्तपोधना वर्षेशतांतरे गताः ॥ २२ ॥ त्र्यशीतिके वर्षशते तु रूपयुक् दशैव गीता दशपूर्विणः शते । द्वये च विशेऽगभृतोऽपि पंच ते शते च साष्टादशके चतुमुनिः॥ २३ ॥ गुरुः सुभद्रो जयभद्रनामा परो यशोबाहुरनंतरस्ततः। महाहलोहार्यगुरुश्च ये दधुः प्रसिद्धमाचारमहांगमत्र ते ॥ २४ ॥ महातपोभृद्विनयंधरश्रुतामृषिश्रुतिं गुप्तपदादिकां दधत् । मुनीश्वरोऽन्यः शिवगुप्तसंज्ञको गुणैः स्वमर्हदलिरप्यधात्पदं ॥ २५ ॥ स मंदरार्योऽपि च मित्रवीरविं (वित ! ) गुरू तथान्यौ बलदेवमित्रको । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 416 417 418 419 420 421 422 423 424 425 426