Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं।
७९९
षट्षष्टितमः सर्गः । जिनेंद्रवीरस्य समुद्भवोत्सवे तदागतः कुंडपुरं सुहृत्परः । सुपूजितः कुंडपुरस्य भूभृता नृपोयमाखंडलतुल्यविक्रमः ॥७॥ यशोदयायां सुतया यशोदया पवित्रया वीरविवाहमंगलं । अनेककन्यापरिवारयारुहत्समीक्षितुं तुंगमनोरथं तदा ॥८॥ स्मितेऽथ नाथे तपसि स्वयंभुवि प्रजातकैवल्यविशाललोचने । जगद्विभूत्यै विहरत्यपि क्षिति क्षितिं विहाय स्थितवांस्तपस्ययं ॥९॥ अमुष्य याताद्य तपोबलान्मुनेरवाप्तकैवल्यफला मनुष्यता । मनुष्यभावो हि महाफलं भवे भवेदयं प्राप्तफलस्तपः फलात् ॥१०॥ इतीरितेयं हरिवंशसत्कथा समासतः श्रेणिक लोकविश्रुता । त्रिषष्टिसंख्यानपुराणपद्धतिप्रदेशसंबंधवती श्रियेऽस्तु ते ॥११॥ सुगौतमायुष्यपुराणपद्धति सपार्थिवैः श्रेणिकपार्थिवस्तदा । सुदृष्टिराकर्ण्य सकर्णतां गतो गतः पुरं स्फीतमतिः कृतानतिः ॥१२॥ चतुर्णिकायामरखेचरादयो जिनं परीत्य प्रणिपत्य भक्तितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426