________________
७८१
हरिवंशपुराणं ।
चतुःषष्टितमः सर्गः। त्रयोत्र भ्रातरस्तेऽपि जिनशासनभाविताः। गृहधर्मरता जाता धर्मकामार्थसेविनः ॥ ८॥ भिक्षाकालेऽन्यदा तेषां गृहं धर्मरुचियेतिः । धमेपिंड इवाखंडः प्रविष्टश्चंद्रचर्यया ॥९॥ प्रतिगृह्य तमुत्थाय सोमदत्तो यमीश्वरं । कार्यव्यग्रतया दाने नागश्रियमयोजयत् ॥ १० ॥ सा स्वपापोदयात्साधौ कोपावेशवशाऽददात् । विषान्नमेष सन्यासकारी सर्वार्थसिद्धिमैत् ॥११॥ नागश्रीदुष्कृतं ज्ञात्वा ते त्रयोऽपि सहोदराः । दीक्षां वरुणगुर्वते निर्विनाः प्रतिपेदिरे ॥ १२ ॥ धनश्रीश्चापि मित्र श्रीगुणवत्यार्यिकांतिके । अदीक्षिषातां निःशेषभववासविषादतः ॥१३॥ ज्ञानपंचकसिद्धयै ते दर्शनत्रिकशुद्धये । चारित्रतपसां शुद्धयै प्रवृत्ताश्चरणोद्यताः ॥ १४ ॥ स्यात्सामायिकचारित्रं सर्वत्र समभावकं । सर्वसावधयोगस्य प्रत्याख्यानमखंडितं ॥ १५ ॥ स्वप्रमादकृतानर्थप्रबंधप्रतिलोपने | सम्यक् प्रतिक्रिया या सा छेदोपस्थापना मता ॥ १६ ॥ विशिष्टा परिहारेण शुद्धिर्यत्र प्रतिष्ठिता । परिहारविशुद्धयाख्यं चारित्रं तत्प्रकथ्यते ॥ १७ ॥ संपरायाः कषायास्तु यत्र ते सूक्ष्मवृत्तयः । तत्सूक्ष्मसांपरायाख्यं चारित्रं पापनोदनं ॥ १८ ॥ यथाख्यातमथाख्यातमिति वा परिभाषितं । सुशांततीक्ष्णमोहं तच्चारित्रं मोक्षसाधनं ॥ १९ ॥ तपः षोढा भवेद्वाह्यमथानशनपूर्वकं । अभ्यंतरं तपः पोढा प्रायश्चित्तादिकं मतं ॥ २० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org