________________
हरिवंशपुराणं ।
७८२
चतुःषष्टितमः सर्गः ।
संयमादिकसद्ध्यानसिद्धिदृष्टफलाप्तये । रागोच्छिस्यै तपो नानाविधं ह्यनशनं स्मृतं ॥ २१ ॥ दोषोपशय संतोष स्वाध्यायध्यानसिद्धये । संगमायावमोदर्यं प्रजागरणकारणं ॥ २२ ॥ भिक्षार्थिमुनिसंकल्पा ये वेस्मान्नाभिगोचराः । आशानिवृत्तये वृत्ति परिसंख्यानमिप्यते ||२३|| घृतक्षीरादिवृष्यात्मरसानां विरहः परं । तयो रसपरित्यागो निक्रेंद्रियजयाय सः ॥ २४॥ पशुस्त्रीप्रविविक्तेषु स्थानेषु प्रासुकेषु यत् । वर्तनं व्रतशुद्धयै तद्विविक्तशयनासनं ॥ २५॥ त्रिकालयोगप्रतिमास्थानपूर्वः स्वयंकृतः । कायक्लेशः सुखत्यागो मोक्षमार्गप्रभावनः ||२६| वाह्यद्रत्र्यव्यपेक्षत्वात्परप्रत्ययहेतुकः । षडिधस्यास्य बाह्यत्वं तपसः प्रतिपादनं ||२७| मनोनियमनार्थत्वादाभ्यंतरमभिष्टुतं । प्रायश्चित्तं कृतावद्यशोधनं नवधात्र तु ॥ २८ ॥ चतुर्धा विनयः पूज्येष्वादशे दशधा पुनः । वैय्यावृत्त्यं स्वकामेनान्यद्रव्यैरप्युपासनं ॥ २९ ॥ स्वाध्यायः पंचधा ज्ञानभावनालस्य वर्जनं । स्वसंकल्पपरित्यागो व्युत्सर्गो द्विविधः पुनः ॥ ३० ॥ चित्ताक्षेपपरित्यागो ध्यानं चापि चतुर्विधं । आर्त रौद्रं च दुर्ध्यानं धर्म्यशुक्ले तु शोभने ॥ ३१ ॥ तत्रालोचनकं कृच्छं दशदोषविवर्जितं । प्रमादकृतदोषाणां गुरवे विनिवेदिनं ||३२|| मिथ्या मे दुष्कृताद्यैर्यत्स्वाभिव्यक्तिः प्रतिक्रियां । दोषव्यपोहनं साधु तत्प्रतिक्रमणं मतं ॥ ३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org