SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । ७८० चतुःषष्टितमः सर्गः। इत्यशेषितपरीषहारिणा सीरिणा विषयदोषहारिणा । अभ्यतप्यत तपोऽतिहारिणा जैनसच्चरणभूविहारिणा ॥ ११५ ॥ इति “अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य बलदेवतपोवर्णनो नाम त्रिषष्टितमः सर्गः। चतुःषष्टितमः सर्गः। अथ ते पांडवाश्चंडसंसारभयभीरवः । प्राप्य पल्लवदेशेषु विहरंतं जिनेश्वरं ॥१॥ चतुर्विधामराकीर्णसमवस्थानमंडनं । तं ते ववंदिरे देवं परीत्य परमेश्वरं ॥२॥ पीत्वा धर्मामृतं लब्धजिनेंद्रघनकालतः । पूर्वजन्मानि तेऽपृच्छन् जिनेंद्रोऽप्यगदीदिति ॥३॥ अत्रैव भरतक्षेत्रे चंपायां मेघवाहने । रक्षति क्षितिपे क्षोणी कुरुवंशविभूषणे ॥४॥ विप्रस्य सोमदेवस्य सोमिलायां त्रयः सुताः। प्रथमः सोमदत्तोऽभूत्सोमिलः सोमभूतिना॥५॥ अनिभूत्यग्निलोद्भुतास्तेषां मानुलजाः क्रमात् । धनश्रीरपि सोमश्रीनागश्रीरिति योषितः ॥ ६॥ शरीरभोगसंसारनिर्वेदं सर्ववेदवित् । सोमदेवः परिप्राप्य प्राब्राजीज्जिनशासने ॥ ७ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy