________________
७७९
हरिबंशपुराणं।
त्रिषष्टितमः सर्गः। लाक्षलेशतृणशर्करादिभिः कर्कशैः स शयनासनादिषु ।
पीडितोऽप्यविकृतांतरस्तृणस्पर्शरूढिमरणत्परीषहं ॥ १०९ ।। अस्पृशन् करनखैस्त मुनिः शोभते स्म धवलो मलावृतः ।
शैलतुंगशिखराश्रितो यथा कालमेघपटलावृतः शशी ॥ ११० ॥ नादरे परकृते कृतादरोऽनादरे च न मनोविकारवान् ।।
शुद्धधीर्विषहतेस्म तत्पुरस्काररूढमपरं परीषहं ॥ १११ ॥ वादिवाग्मिगमको महाकविः सांप्रतं सकलशास्त्रविद्भुवि ।
नास्मदन्य इति हि स्मयो मनाक् प्रज्ञया न परिषह्य दुषितः ॥११२॥ अज्ञ एष न पशुर्न मानुषो वीक्ष्यते न हि न भाषते मृषा ।
मौनमित्यबुधवाच्यवज्ञयाऽज्ञानमेष सहते परीषहं ॥ ११३ ॥ वार्तमुग्रतपसा महर्षयः पूर्वमित्यनुपलब्धितोऽधुना ।
इत्यनुक्तिरतिशुद्धदर्शनो दर्शनाख्यमसहत्परीषहं ॥ ११४ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org