________________
हरिवंशपुराणं ।
७७८
त्रिषष्टितमः सर्गः। क्षेत्रकालनियतासनेष्वसौ बाध्यतेस्म न निषद्ययाऽनिशं ॥ १०२ ॥ ध्यानतोध्ययनतो मुनिः क्रमादल्पकालनियताल्पनिद्रया।
एकपार्श्वकृतभूमिशय्यया नावृतोऽपि निशि न प्रपीडितः ॥ १०३ ॥ दुर्जनैर्निशितदुर्वचोऽस्त्रकैराहतोऽपि हृदयेऽतिदुस्सहैः।।
क्रोशबाधसहनः क्षमावृतः स्यामिति स्मृतिमदत्त धीरधीः ॥ १०४ ॥ अस्त्रशस्त्रनिवहैर्वपुर्वधः प्राप्यते यदि नु मे तथाप्यलं
सह्यते वधपरीषहो मयेत्येष बुद्धिमदधादनागतं ।। १०५ ।। वाह्यमांतरमसौ तपश्चरन्नस्थिशेषवपुषः स्थितिं प्रति ।
व्यापृतोऽपि समयव्यवस्थया याचनाख्यमजयत्परीषहं ॥ १०६ ।। मौनिना निजशरीरदर्शिना संहितेन हितचंडचर्यया।
लन्ध्यलब्धिसुधियामुना जितोऽलाभनामविदितः परीपहः ॥ १०७ ॥ रूक्षशीतलविरुद्धभुक्तिजां वातपित्तकफकोपजां रुजं ।
सोऽप्रतिक्रियतयाऽवधीरयन् रोगसंज्ञमजयत्परीषहं ॥ १०८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org