________________
हरिवंश पुराणं ।
७७७
पर्वताग्रशिखरस्थितोऽजयद्ग्रैष्ममुष्णमभितः परीषदं । दावधूमवलयातपत्र संछायमेव विनिवारितातपः ।। ९६ ॥ गूढवृत्तिभिरनश्चिजंतुभिर्गाढपीतरुधिरोऽप्यकंपितः । सोढवान् दृढमसौ परीहं प्रौढदंशमशकोपलक्षितं ॥ ९७ ॥ सोंगलग्न मनपायमप्यविश्वास्य मेकदिन दुःखपालनं ।
सत्कलत्रमिव सत्रपं न्यधान्नाग्न्यमात्मवशगं परीपहं ॥ ९८ ॥ ध्यानयोग्यगिरिमार्गदुर्गभ्रदेक एव हि विहृत्य निग्रहे ।
धर्मसाधन रतिर्यथा रिपोर्व्यावृतो रतिपरीषहस्य सः ॥ ९९ ॥ भ्रूलताकुटिलचापयोजितस्त्रीकटाक्षशरवर्षिणं वृथा 1
कुता मनोधमूर्जितस्त्रीपरीषहजयः कृतोऽमुना ॥ १०० ॥ तीर्थभूमिविहृतिः ससंयमावश्यकेष्व परिहाणितो व्रजन् । वाहनाद्यनभिसंध्य चर्यया खिद्यतेस्म न परीषहाख्यया ॥ १०१ ॥ प्रासुकास्वथ विविक्तभूमिषु ध्यानधौतधिषणो विभूतधीः ।
Jain Education International
For Private & Personal Use Only
त्रिषष्टितमः सर्गः ।
www.jainelibrary.org