________________
हरिवंशपुराणं ।
७७६
स्थावरे त्रसकुलेऽखिलेंद्रियैः पूर्णतादिषु सुधर्मलक्षणा | बोलब्धिरतिदुर्लभा भवेत्सत्समाधिमरणाप्तिसत्फला ॥९०॥ धर्म एष जिनभाषितः शिवप्राप्तिहेतुरवधादिलक्षणः । त्यागतोऽस्य भवदुःखितेत्यनुप्रेक्षिकांत्यशुभचित्यनात्मकाः ॥९१॥ इत्यनुश्रुतमनूनधीरनुप्रेक्षिकार्थमनुभावयन् मुहुः ।
भ्रातृमोहमजयज्जयन्मुनिः सद्विविंशतिपरीषहद्विषः ||९२॥ बहुभिग्रहपरिग्रहो ज्वलज्जाठराग्नि जठरोपरोधतः ।
मोक्षसाधनतया व्यधात्क्षुत्परीषहजयं महामुनिः ॥९३॥ देहेनिर्यदवयवाटवीलुषा दावमूर्तिनिभया पिपासया ।
निष्प्रतिक्रियधृतिर्न वध्यते क्षांतिनीरदघटाभिषिक्तया ॥९४॥ स्थंडिले निशि दिवा च योगिना तीव्रवातहिमवृष्टयनेहसि । वातवर्षविषमे तरोरधोऽयोधि शीतपरुषः परीषहः ।। ९५ ।। १ 'गिर्यवयवाटवी ' इति ख पुस्तके |
Jain Education International
For Private & Personal Use Only
त्रिषष्टितमः सर्गः ।
www.jainelibrary.org