________________
त्रिषष्टितमः सर्गः।
हरिवंशपुराणं।
७७५ धर्ममेकमपहाय नापरः सत्सहाय इति चैकतास्मृतिः ॥८३॥ नित्यता मम तनोनित्यता चेतनोऽहमपचेतना तनुः । __ अन्यता मम शरीरतोऽपि यत्तत्किमंग ! पुनरन्यवस्तुनः ॥४॥ शुक्रशोणितकुबीजजन्मके सप्तधातुमयके त्रिदोषके । ____ कः शुचं तदनुगाशुचौ शुची रज्यते स्वपरयोः शरीरके ॥८५॥ कायवाङ्मनसयोगभेदवानास्रवो भवति पुण्यपापयोः।
कर्मबंधदृढशृंखलश्चिरं संसरत्यसुभृदुग्रसंसृतौ ॥८६॥ स्याद्विधास्रवनिरोधलक्षणः संवरः समितिगुप्तिपूर्वकैः ।
संवरे सति सनिर्जरेऽसुभृत्सिध्यति स्वकृतकर्मसंक्षयात् ।।८७।। दुर्गतिष्वकुशलानुबंधिनी संयमान्नु कुशलानुबंधिनी ।
निर्जरा निरनुबंधिनी च सा चिंतिता परमयोगिनी शुभा ॥८८॥ लोकसंस्थितिरनाद्यनंतिका लोकगर्भबहुमध्यभागमा ।
अत्र ही पडसुकायसंहतिर्दुखिनीति खलु लोकचिंतना ।।८९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org