________________
हरिवंशपुराणं ।
७७४
पुत्रयोजितनिजश्रियोऽगमन् पल्लवाख्यविषयं जिनं प्रति ॥७७॥ द्रौपदीप्रभृतयस्तदंगनाः संयमं प्रति निविष्टबुद्धयः । पांडवाननुगता विमोहिता संसृतौ विगतरूक्षधीयुषा ॥७८॥ द्वादशात्मभिदयासतामनुप्रेक्षयानुमतया हलायुधः ।
व्यावृतोऽभवदखंडितस्थितिः सत्रिदंडदृढखंडनोन्मुखः ॥७९॥ तन्निमित्तमिति यत्र मूर्छना स्थानदेहधनसौख्यबंधुषु ।
तत्र किंचिदपि नास्ति नित्यता आत्मनोऽन्यदिति चिंतयत्यसौ ||८०|| मृत्युदुःखपरिपीडितस्य मे व्याघ्रवक्त्रमृगशावकस्य वा ।
sita न शरणं धनादि वा धर्मतोऽन्यदिति चिंतनामितः ॥ ८१ ॥ नैकयोनिकुल को टिकूटसंसारचक्रमिह यांति जतवः ।
प्रेरिताः कटुककर्मयंत्रकैः स्वामिभृत्यपितृपुत्रपूर्वतां ॥८२॥ एक एव भवत्प्रजायते मृत्युमेति पुनरेक एव तु । १ 'पांडवाननुगता जनन्यपि स्निग्धता विगतरूक्षधीस्तु या ' इति ख पुस्तके |
Jain Education International
त्रिषष्टितमः सर्गः ।
For Private & Personal Use Only
www.jainelibrary.org