Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं ।
७८४
चतुःषष्टितमः सर्गः ।
ज्ञानस्य मनसाभ्यासोऽनुप्रेक्षा परिवर्तनं । आम्नाये देशनान्येषामुपदेशोऽपि धर्मगः || ४७|| प्रशस्ताध्यवसायार्थप्रतिज्ञाशय लब्धये । संवेगाय तपोवृद्धयै स्वाध्यायः पंचधा भवेत् ॥ ४८ ॥ क्रोधाद्यभ्यंतरोपाधेः कायस्य सविचारता । वाह्योपधेर कल्पस्य त्यागोप्युत्सर्ग इष्यते ॥ ४९ ॥ निस्संगनिर्भयत्वाय जीविताशानिवृत्तये । स बाह्याभ्यंतरोपध्योत्सर्गः संप्रजायते ॥ ५० ॥ तपसा निर्जरा मुक्त संवृतस्योपजायते । परिणामस्य भेदेन प्रतिस्थानं तु भिद्यते ॥ ५१ ॥ भव्यः पंचेंद्रियः संज्ञी पर्याप्तो लब्धिभिर्युतः । अंतःशुद्धिप्रवृद्धो स्याद्बहुकर्मविनिर्जरः || ५२ ॥ ततः प्रथमसम्यक्त्वलाभकारणसन्निधौ । सम्यग्दृष्टिर्भवेत्स स्यादसंख्यगुणनिर्जरः ॥५३॥ ततः श्रावकतापन्नोऽसंख्येयगुणनिर्जरः । ततोऽपि विरतस्तस्मादनंतानां वियोजकः ॥ ५४ ॥ ततो दर्शनमोहस्य क्षपकः क्षायिकोद्धकृत् । ततश्चारित्रमोहस्य सर्वोपशमको यतिः ||५५|| उपशांतकषायोऽतोऽसंख्येयगुणनिर्जरः । ततश्चारित्रमोहस्य क्षपकः क्षपकाभिधः ॥५६॥ ततः क्षीणकपायाख्योऽसंख्येयगुणनिर्जरः । जिनेंद्रः केवली तस्मादनंतज्ञानदर्शनः ||५७|| पुलको वकुशचैव कुशीलो गुणशीलवान् । निग्रंथः स्नातकश्चेति निर्ग्रथः पंचधा मताः || ५८ || पुलाका भावनाहीना ये गुणेषूत्तरेषु ते । न्यूनाः कचित्कदाचिच्च पुलाकाभा व्रतेष्वपि ॥ ५९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426