Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 402
________________ हरिवंशपुराणं । ७८५ चतुःषष्टितमः सर्गः । अखंडितव्रताः काय भूषोपकरणानुगाः । अविविक्तपरीवारा सवला वकुशाः स्मृताः ॥६०॥ परिपूर्णभया जातूत्तरगुणविरोधिनः । प्रतिसेवनाकुशीला ये अविविक्तपरिग्रहाः || ६१ || शमितान्यकषाया ये ससंज्वलनमात्रकाः । ते कषायकुशीलाः स्युः कुशीला द्विविधा यतः ||६२ || अन्योदयकर्माणो ये पयोदंडराजिवत् । निर्ग्रथास्ते मुहूर्तोद्भिद्यमानात्मकेवलाः ||६३॥ प्रक्षीणघातकर्माणः स्नातकाः केवलीश्वराः । एते पंचापि निर्ग्रथा नैगमादिनयाश्रयात् ||६४ || संयमादिभिरष्टाभिरनुयोगैर्यथाक्रमं । ते पुलाकादयः साध्याः साध्यसाधनभेदिनः ||६५|| प्रतिसेवनाकुशीलाः पुलाका वकुशा द्वयोः । प्राक्कषायकुशीलाः स्युरंतवर्ज्ये चतुष्टये || ६६ || संयमे च यथाख्याते निर्ग्रथस्नातकाः स्थिताः । श्रुतादयोऽपि पंचानां प्रकथ्यते यथाक्रमं ॥६७॥ प्रतिसेवनाकुशीलाः पुलाका वकुशाः स्थिताः । दशपूर्वाण्यभिन्नानि विभ्रत्युत्कर्षतः श्रुतं ॥ ६८ ॥ ये कषायकुशीला ये निर्ग्रथाख्याश्च संयताः । ते चतुर्दशपूर्वाणि सर्वे विभ्रति सर्वथा || ६९ || जघन्येन पुलाकस्य श्रुतमाचारवस्तु तत् । निर्ग्रथांतयतीनां त्वष्टौ प्रवचनमातरः ||७० || व्रतानां रात्र्यमुक्तेश्व बलादन्यतमं प्रति । सेवमानः पुलाकः स्यात्परेषामभियोगतः ॥७१॥ कुशः सोपकरणो बहूपकरणप्रियः । शरीरवकुशः कायसंस्कारं प्रतिसेवते ॥ ७२ ॥ ५० Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426