Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं ।
७८३
चतुःषष्टितमः सर्गः। आलोचनाद्यतः शुद्धिः प्रतिक्रमणतोऽपि च । तदुभयं तु तदुद्दिष्टं प्रायश्चितं विशुद्धिकृत् ॥३४॥ स्याद्विवेको विभजनं यः संसक्तानपानयोः । कामोत्सर्गादिकरणं व्युत्सर्गः संप्रकीर्तितः ॥३५॥ तपस्त्वनशनायेव प्रायश्चित्तमुदीरितं । प्रव्रज्या हापनं छेदो दिनमासादिभिर्यतेः ॥३६॥ पक्षमासादिभेदेन दूरतः परिवर्जनं । परिहारः पुनर्दीक्षा स्यादुपस्थापना पुनः ॥३७॥ कालानतिक्रमादौ तु ज्ञानाचारेऽष्टधा मते । यथोक्तग्रहणादियः स ज्ञानविनयो मतः ॥३८॥ अष्टधा दर्शनाचारे निश्शंकादिषु संस्थिते । विनयो दर्शने दृश्यो गुणदोषविवेकिता ॥३९॥ त्रयोदशविधोदारचारित्राचारगोचरा । निरतीचारता चारुश्चरित्रविनयः परः ॥४०॥ या प्रत्यक्षपरोक्षेषु प्रत्युत्थानादिकाः क्रियाः। गुर्वादिषु यथायोग्यं विनयश्चौपचारिकः ॥४१॥ आचार्ये चाप्युपाध्याये तपःश्रेष्ठे तपस्विनि । शिक्षाशीले यतौ शैक्षे ग्रस्ते ग्लाने रुजादिभिः ॥४२॥ गणे स्थविरसंतानलक्षणे च कुलेऽपि च । दीक्षकाचार्यशिष्यादिसंस्त्याय निजलक्षणे ॥४३।। गहिश्रमणसंघाते संघे च गुणसंघके । चिरप्रवजिते साधौ मनोज्ञे लोकसम्मते ॥४४॥ व्याधिमिथ्यात्वसंपातपरीषहरिपूदये । वैय्यावृत्त्यं यथायोग्यं विचिकित्साव्यपोहनं ॥४५॥ ग्रंथार्थयोः प्रदानं हि वाचना पृच्छनं पुनः । परानुयोगो निश्चित्यै निश्चितानुबलाय वा ॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426