Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
हरिवंशपुराणं !
चतुःषष्टितमः सर्गः । स्थानान्यतोऽकषायाणि निर्ग्रथः प्रतिपद्यते । सोऽसंख्येयानि गत्वातो व्युच्छेदमुपगच्छति ।। ८५ ।। स्थानमेकमतस्तूर्ध्वं गत्वानंतगुणाधिकः । स्नातकः कृतकर्मातो निर्वाणं प्रतिपद्यते ॥८६॥ क्षेत्रकालादिभिः सिद्धाः साध्या द्वादशभिस्तु ते । अनुयोगैर्यथायोग्यं नयद्वयाविवक्षया ||८७|| सिद्धिक्षेत्रेमला सिद्धिरात्माकाशप्रदेशयोः । प्रत्युत्पन्नप्रतिग्राहिनययोगाद संगिनां ॥ ८८ ॥ कर्मभूमिषु सर्वासु जन्म प्रति च संहृतिं । संसिद्धिर्मानुषे क्षेत्रे भूतग्राहिनयेक्षया ॥ ८९ ॥ एकस्मिन् समये कालात्प्रत्युत्पन्ननयेक्षया । भूतग्राहिनयेक्षातो जन्मतोऽप्यविशेषतः ॥ ९० ॥ उत्सर्पिण्यवसर्पिण्योर्जातः सिद्ध्यति जन्मवान् । विशेषेणावसर्पिण्यां तृतीयांततुरीययो ॥ ९१ ॥ दुःखमायां तु संजातो दुःखमायां न सिद्ध्यति । उत्सर्पिण्यवसर्पिण्योः संहारात्सर्वदा पुनः ॥ ९२ ॥ सिद्धिः सिद्धिगतौ ज्ञेया सुमनुष्यगतौ यथा । अवेदत्वेन लिंगेन भावतस्तु त्रिवेदतः ॥९३॥ न द्रव्याद्द्रव्यतः सिद्धिः पुल्लिंगेनैव निश्चिता । निर्ग्रथेन च लिंगेन सग्रंथेनाथवा न या ||९४|| तीर्थसिद्धिर्द्विधा तीर्थकारीतरविकल्पतः । सति तीर्थकरे सिद्धा असतीतीतरे द्विधा ॥९५॥ सिद्धिरव्यपदेशेन नयादेकेन वा पुनः । चतुर्भिः पंचभिर्वापि चारित्रैरुपजायते ।। ९६ ।। सिद्धिः प्रत्येकबुद्धानां स्वतो बोधिमुपेयुषां । तथा बोधितबुद्धानां परतो बोधिलाभिनां ॥९७॥
Jain Education International
७८७
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/c1efe47e430ba8db00f05c07a29adba6eebdfc7ca653f6ac2467622885e1c414.jpg)
Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426