Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti

View full book text
Previous | Next

Page 412
________________ ७९५ हरिवंशपुराणं । पंचषष्टितमः सर्गः। मुनिपादसमीपे तान् सिंहानालोक्य भूभृतः । ते ज्ञातमुनिसामर्थ्याः प्रणम्योपशमं ययुः ॥३१॥ ततः प्रभृत्यसौ लोके नरसिंहः इति श्रुति | सिंहोरस्को हली प्राप्तः सिंहानुचरसंयतः ॥३२॥ एक वर्षशतं कृत्वा तपो हलधरो मुनिः । समाराध्य परिप्राप्तो ब्रह्मलोके सुरेशतां ॥३३॥ तत्र पद्मोत्तरे नाम्नि विमाने रत्नभास्वरे । देवदेवीगणाकीणे प्रासादोद्यानमंडिते ॥३४॥ मृदूपपादशय्यायामुदपादि बलोऽमरः । महामणिरिवोदाररत्नाकरमहाक्षितौ ॥३५॥ भाषामनःशरीराक्षप्राणाहारप्रसिद्धिभिः । षड्भिः पर्याप्तिभिः सद्यः पर्याप्तोऽभूत्सुरोत्तमः ॥३६॥ शयने सर्वतोभद्रे वस्त्राभरणभूषितः । विबुधः सुखनिद्रांते यथात्र नवयौवनः ॥३७॥ विलोक्यमानमालोक्य शब्दैरमरयोषितां । सुराणामनुरक्तानामप्यसावभिनंदितः ॥३८॥ चंद्रादित्याधिकोदारप्रभावलयदेहभृत् । इति दध्यौ धृतध्यानः प्रमदापूर्णमानसः ॥३९॥ कोऽयं रम्यतमो देशः कोयं प्रमुदितो जनः । कोहं काद्य भवोयं मे धर्मः को वार्जितो मया॥४०॥ बोधितः सुरमुख्यैः स सभवप्रत्ययावधिः । विवेद सहसा देवः पौर्वापर्यमशेषतः ॥४१॥ ज्ञातपूर्वभवाशेषबंधुबंधुहितोद्यतः । प्राप्ताभिषेककल्याणः स्वीकृतात्मपरिच्छदः ॥४२॥ अवधिज्ञातकृष्णश्च गत्वासौ वालुकाप्रभा । दृष्ट्वाऽनुजं निजं देवो दुःखितं दुःखितोऽभवत् ॥४३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426