Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
७९४
हरिवंशपुराणं।
पंचषष्टितमः सर्गः। दुर्योधनान्वयस्तत्र स्थितो युधवरोधनः । श्रुत्वागत्याकरोद्वैरादुपसर्ग सुदुस्सहं ॥१९॥ तप्तायोमयमूर्तीनि मुकुटानि ज्वलंत्यलं । कटकैः कटिसूत्रादि तन्मूर्धादिष्वयोजयत् ॥२०॥ रौद्रं दाहोपसर्ग ते मेनिरे हिमशीतलं । वीराः कर्मविपाकज्ञाः कर्मक्षयकृतौ क्षमाः ॥२१॥ शुक्लध्यानसमाविष्टा भीमार्जुनयुधिष्ठिराः । कृत्वाष्टविधकर्मातं मोक्षं जग्मुस्त्रयोऽक्षयं ॥२२॥ नकुलः सहदेवश्च ज्येष्ठदाहं निरीक्ष्य तौ । अनाकुलितचेतस्को जातौ सर्वार्थसिद्धिजौ ॥२३॥ नारदोऽपि नरश्रेष्ठः प्रव्रज्य तपसो बलात् । कृत्वा भवक्षयं मोक्षमक्षयं समुपेयिवान् ॥२४॥ अन्येऽपि बहवो भव्याः सुरत्नत्रयधारिणः । मोक्ष प्राप्ताः परे स्वर्गमासनभवसंख्यया ॥२५॥ तुंगिकाशिखरारूढो बलदेवोऽपि दुष्करं । तपो नानाविधं चक्रे भवचक्रक्षयोद्यतः ॥२६॥ एकद्विव्यादिषण्मासर्पयतोपोषितरसौ । कषायवपुषां चक्रे शोषणं पोषणं धृतेः ॥२७॥ कांतारभिक्षया प्राणधारणां कर्तुमुद्यतः । भ्रमन् कांतारमध्येन्यैर्व्यलोकि शशिविभ्रमः ॥२८॥ पुरग्रामादिषु ख्यातां श्रुत्वा वाता तथाविधां। पर्यंतवासिनो भूपाः प्राप्ताः क्षुमितमानसाः॥२९॥ शंकाविषसमापन्नानानामहरणाश्रितान् । सिद्धार्थस्तान् तथालोक्य सृष्टवान् सिंहसंततिं ॥३०॥
१ 'क्षुपवरोधन' इति ख पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ec622d59392a51626d1bef426ef32bd654befed675fe95f639ac20c20face425.jpg)
Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426