Book Title: Harivanshpuranam Uttararddham
Author(s): Darbarilal Nyayatirth
Publisher: Manikchand Digambar Jain Granthamala Samiti
View full book text
________________
७९१
हरिवंशपुराणं।
चतुःषष्टितमः सर्गः । स्वभर्तुः सोमभूतेस्तु भृत्वाभूदारणाच्युते । देवी सा पंचपंचाशत्पल्यतुल्यनिजस्थितिः ॥१३६॥ च्युत्वा ते पांडुराजस्य सोमदत्तादयस्त्रयः । कुंत्यां युधिष्ठिरो भीमः पार्थश्चेत्यभवत्सुताः॥१३७।। धनश्रीपूर्वको देवो मित्रश्रीपूर्वकस्तथा । नकुलः सहदेवश्च मद्रयां जातौ शरीरजौ ॥१३८॥ सा कुमारी दिवश्युत्वा द्रुपदस्य शरीरजा । जाता दृढरथाख्यायां स्त्रियां द्रौपद्यभिख्यया॥१३९॥ द्रौपद्यर्जुनयोर्योगः पूर्वस्नेहेन सांप्रतं । सुव्यक्तं सांप्रतं जातो राधावेधपुरस्सरः ॥१४०॥ ज्येष्ठानां भविता सिद्धिस्त्रयाणामिह जन्मनि । सर्वार्थसिद्धिर्हि तयोरंत्यपांडवयोरिह ॥१४१॥ सम्यग्दर्शनशुद्धाया द्रौपद्यास्तपसः क्रमात् । आरणाच्युतदेवत्वपूर्विका सिद्धिरिष्यते ॥१४२।। इत्थं ते पांडवाः श्रुत्वा धर्म पूर्वभवांस्तथा । संवेगिनो जिनस्यांते संयमं प्रतिपेदिरे ॥१४३॥ कुंती च द्रौपदी देवी सुभद्राद्याश्च योषितः । राजीमत्याः समीपे ताः समस्तास्तपसि स्थिताः ।। ज्ञानदर्शनचारित्रैव्रतैः समितिगुप्तिभिः । आत्मानं भावयंतस्ते पांडवाद्यास्तपोऽचरन् ॥१४५॥
कुंत्यग्रेण वितीर्णभैक्षनियमः भुत्क्षामगात्रः क्षमः
षण्मासैरथ भीमसेनमुनिभिनिष्ठाप्य स्वांतक्रमं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/95cd85f72990bc5e843b189e04bb5051833861a5d51c51b8d7af17c1bd248969.jpg)
Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426