SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ ७९१ हरिवंशपुराणं। चतुःषष्टितमः सर्गः । स्वभर्तुः सोमभूतेस्तु भृत्वाभूदारणाच्युते । देवी सा पंचपंचाशत्पल्यतुल्यनिजस्थितिः ॥१३६॥ च्युत्वा ते पांडुराजस्य सोमदत्तादयस्त्रयः । कुंत्यां युधिष्ठिरो भीमः पार्थश्चेत्यभवत्सुताः॥१३७।। धनश्रीपूर्वको देवो मित्रश्रीपूर्वकस्तथा । नकुलः सहदेवश्च मद्रयां जातौ शरीरजौ ॥१३८॥ सा कुमारी दिवश्युत्वा द्रुपदस्य शरीरजा । जाता दृढरथाख्यायां स्त्रियां द्रौपद्यभिख्यया॥१३९॥ द्रौपद्यर्जुनयोर्योगः पूर्वस्नेहेन सांप्रतं । सुव्यक्तं सांप्रतं जातो राधावेधपुरस्सरः ॥१४०॥ ज्येष्ठानां भविता सिद्धिस्त्रयाणामिह जन्मनि । सर्वार्थसिद्धिर्हि तयोरंत्यपांडवयोरिह ॥१४१॥ सम्यग्दर्शनशुद्धाया द्रौपद्यास्तपसः क्रमात् । आरणाच्युतदेवत्वपूर्विका सिद्धिरिष्यते ॥१४२।। इत्थं ते पांडवाः श्रुत्वा धर्म पूर्वभवांस्तथा । संवेगिनो जिनस्यांते संयमं प्रतिपेदिरे ॥१४३॥ कुंती च द्रौपदी देवी सुभद्राद्याश्च योषितः । राजीमत्याः समीपे ताः समस्तास्तपसि स्थिताः ।। ज्ञानदर्शनचारित्रैव्रतैः समितिगुप्तिभिः । आत्मानं भावयंतस्ते पांडवाद्यास्तपोऽचरन् ॥१४५॥ कुंत्यग्रेण वितीर्णभैक्षनियमः भुत्क्षामगात्रः क्षमः षण्मासैरथ भीमसेनमुनिभिनिष्ठाप्य स्वांतक्रमं । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy