________________
हरिवंशपुराणं।
.७९०
चतुःषष्टितमः सर्गः। सेति पृष्टा जगौ हेतुमार्ययोस्तपसस्तयोः । प्रबोधनाय तस्याश्च करुणापरिनोदिता ॥१२४॥ श्रूयतां सुकुमारि द्वे सुकुमारकुमारिके । हेतुना येन तापस्ये तपस्विन्यौ व्यवस्थिते ॥१२५।। सौधर्मादिपतेर्देव्याविमे पूर्वत्र जन्मनि । विमला सुप्रभा चेति सुप्रसिद्ध बभूवतुः ॥१२६।। ते नंदीश्वरयात्रायां जिनपूजार्थमागते । कथंचिज्जातसंवेगे चित्तांतरमिति श्रिते ॥१२७॥ मनुष्यभवसंप्राप्तौ करिष्यावो महत्तपः । आवां स्त्रीत्वनिमित्तं तु येन दुःखं न दृश्यते ॥१२८॥ इति संगीर्य ते देव्यो दिवः प्रश्रुत्य भूपते । श्रीषणस्येह साकेते श्रीकांतायां सुयोषिति ॥१२९॥ हरिषेणा सुता ज्येष्ठा श्रीषेणा च कनीयसी । जाते जाते च कांते ते यौवनश्रीविभूषिते ॥१३०॥ स्वयंवरविधौ स्मृत्वा पूर्व जन्म च संगरं । बंधुलोकं परित्यज्य कुमायौँ तपसि स्थिते ॥१३१॥ इति श्रुत्वार्यिकावाक्यं निर्विण्णा सुकुमारिका । तदंते सा प्रवव्राज संसारभयवेदिनी ॥१३२॥ तपस्विनीभिरन्याभिस्तपस्यंती तपस्विनी । कालं नीतवती नीत्या तपसा शोषितांगिका ॥१३३॥ वसंतसेनां गणिकां कामुकैः परिवेष्टितां । दृष्ट्वा वनविहारेऽसावेकदा क्रीडनोद्यतां ॥१३४॥ निदानमकरोत्क्लिष्टा दुर्यशःप्राप्तिकारणं। सौभाग्यमीदृशं मेऽन्ये जन्मन्यस्त्विति सादरा ॥१३५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org