________________
हरिवंशपुराणं ।
७८९
चतुःषष्टितमः सर्गः ।
इतिदृग्ज्ञानचारित्रतपसामत्युपासकाः । सोमदत्तादयत्ये ते पंच भूत्वारणाच्युते ॥१११॥ देवाः सामानिका भोगं द्वाविंशत्यन्धिजीविनः । भुंजानस्तस्थुरत्यंत शुद्धदर्शन दर्शनाः ॥ ११२ ॥ नागश्रीरपि मृत्वाष फलं धूमप्रभावनौ । अनुभूय महादुःखं सा सप्तदशसागरं ।। ११३॥ भूत्वा स्वयंप्रभद्वीपे दुष्टो दृष्टिविषोरगः । त्रिसागरोपमायुकां मृत्वागाद्वालुकाप्रभां ॥११४॥ तत्रानुभूय दुःखौघांचिरादुद्वर्त्य पापतः । तत्र स्थावरकायेषु सानयत्सागरद्वयं ।। ११५ ।। ततो मातंगकन्या भूचंपायां सान्यदा सुनेः । समाधिगुप्ततः कृत्वा मधुमांसादिवर्जनं ॥ ११६ ॥ जीवितांते सुबंधोःस्याच्चंपायामेव वैश्यतः । धनवत्यां सुता जाता नाम्ना च सुकुमारिका ॥ ११७ ॥ पापानुबंधदोषेण सुदुर्गंध शरीरिका । रूपवत्यपि विद्वेष्या जाता युवजनस्य सा ॥ ११८ ॥ वैश्यस्य धनदेवस्याशोकदत्तासमुद्भवौ । तनयो जिनदेवश्व जिनदत्तश्च विश्रुतौ ॥ ११९ ॥ कन्यां तामपि दुर्गंध वृतां बंधुभिरग्रजः । परित्यज्य प्रवव्राज सुव्रतः सुत्रतांतिके ॥ १२० ॥ कनीयान् जिनदत्तस्तां बंधुवाक्योपरोधनः । परिणीयापि तत्याज दुर्गंधामतिदूरतः ॥ १२१ ॥ आत्मानमपि निंदती सोपवासान्यदा च सा । क्षांतार्यामार्गिकायुक्तां भोजयित्वातिभक्तितः ॥ अभिवंद्य तदापृच्छदार्थिके केन हेतुना । इमे परमरूपिण्यौ स्थिते तपसि दुष्करे ।। १२३ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org