________________
हरिवंशपुराण।
.७८८
चम्पष्टितमः सर्गः। सिद्धिनिविशेषैरेकद्वित्रिचतुर्यकैः । अवगाहेन चोत्कृष्टजघन्यांतभिदावता ॥१८॥ अवगाहनमुत्कृष्टमूनं पंचधनुःशती । पंचविंशा च देशोनारत्नयोर्धचतुर्थकाः ॥१९॥ मध्येऽनेकविकल्पास्तु यथासंभवमीरिताः । तत्र सिद्धयति चैतस्मिन्नेकस्मिन्नवगाहने ॥१०॥ अंतरः शून्यकालः स्यादंतरं सिद्धयतां पुनः । जघन्येनैकसमयो मासानां पदमन्यथा ॥१०१॥ जघन्येनैक एवैकसमये सिद्धयति ध्रुवं । तथोत्कर्षेणाष्टशतसंख्यास्ते संख्यया स्मृताः ॥१०२॥ क्षेत्रादिभेदभिवानां संख्याभेदः परस्परं । ख्यातमल्पबहुत्वं च सिद्धिक्षेत्रे न विद्यते ॥१०॥ भूतपूर्वव्यपेक्षातश्चित्यते तनु तद्यथा । जन्मनः संहतेश्चेति क्षेत्रसिद्धा द्विधा यतः ॥१०४॥ अल्पे संहारसिद्धास्ते जन्मसिद्धास्तु तत्त्वतः । स्युः संख्येयगुणाः सर्वे सार्वसर्वज्ञशासने ॥१०५।। ऊर्ध्वलोकस्य सिद्धा ये स्तोकास्तेऽधोजगद्गताः। स्युः संख्येयगुणास्तिर्यग्लोकसिद्धास्तथा ततः।। स्तोकाः समुद्रसिद्धास्तु स्युः संख्येयगुणाः पुनः द्वीपसिद्धा इतीहेत्थमप्यशेषेण भाषिताः॥१०७॥ लवणोदे त्रयःसिद्धाः सर्वस्तोकास्तु ते स्तुताः। कालोदसिद्धा बोद्धव्यास्तत्संख्येयगुणाः सदा १०८ ये जंबूद्वीपसिद्धास्ते स्युः संख्येयगुणास्तथा । धातकाखंडसिद्धाश्च पुष्करद्वीपगास्तथा ॥१०९।। यथा क्षेत्रविभागेन प्रोक्ताल्पबहुता तथा । सा कालादिविभागेन वेदितव्या यधानमं ॥११०॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org