________________
हारवंशपुराणं
७९२
पंचषष्टितमः सर्गः। षष्ठाद्यैरुपवासभेदविधिभिनिष्ठाभिमुख्यैः स्थितै
ज्येष्ठायैर्विजहार योगिभिरिलां जैनागमांभोषिभिः ॥१४६॥ इत्यरिष्टनेमिपुराणसंग्रहे हरिवंशे जिनसेनाचार्यस्य कृतौ युधिष्ठिरादिपंचपांडव
प्रव्रज्यावर्णनो नाम चतुःषष्टितमः सर्गः ।
पंचषष्टितमः सर्गः। अथ सर्वामराकीर्णस्तीर्थकृत्कृतदेशनः । उत्तरापथतो देशं सुराष्ट्रमभितो ययौ ॥१॥ उत्तरायणमुत्क्रम्य दक्षिणायनमागते । जिनार्के तेजसो वृत्तिः प्राग्वत्सर्वत्रगाभवत् ॥२॥ आर्हत्यविभवोपेते महीं विहरतीश्वरे । दक्षिणां दक्षिणादेशा भेजिरे स्वर्गविभ्रमाः ॥३॥ तत्रोर्जयंतमंतेऽसावंतकल्याणभूतिभाक् । आरुरोह स्वभावेन नृसुरासुरसेवितः ॥४॥ पूर्ववत्समवस्थानभूमिस्तत्राभवत्प्रभोः । तिर्यग्मानवदेवौधैरनधैः समधिष्ठिताः ॥५॥ धर्म तत्र जिनोऽवोचद्रलत्रितयपावनं । स्वर्गापवर्गसौख्यैकसाधनं साधुसम्मतं ॥६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org