________________
हरिवंशपुराणं ।
७३२
षष्टितमः सर्गः ।
विपुलोपगता ये ते बोद्धव्या भव्यदेहिनां । वादिनोऽपि च तावति सहस्राणीष्टवादिनः || ३७४ || सुमते सहखे तु चतुःशत्यपि पूर्विणः । द्वे लक्षे शिक्षका दृश्याश्चतुः पंचाशदेव च ॥ ३७५ ॥ सहस्राण्यभियुक्तानि पंचाशच्च शतत्रयं । एकादशसहस्राणि विमलावधयस्तथा ॥ ३७६ ॥ त्रयोदशसहस्राणि केवलज्ञानदृष्टयः । अष्टादशसहस्राणि चतुःशत्यपि वैक्रियाः ||३७७॥ दृश्या दशसहस्राणि विपुलाप्ताश्चतुःशती । तावतो वादिनस्तेभ्यः सर्वे पंचाशताधिकाः ॥ ३७८ ॥ पद्माभस्य सहस्रे द्वे शतानि त्रीणि पूर्विणः । लक्षे द्वे शिक्षकाः षष्टिसहस्राणि नवापि च ॥ ३७९ ॥ ज्ञेया दशसहस्राणि मुनयोऽवधिलोचनाः । द्वादशाष्टशतैर्युक्ताः सहस्राण्याप्त केवलाः || ३८० || षोडशैव सहस्राणि त्रिशती वैक्रिया नव । वादिनो विपुलाप्ताः षट् शत्यामा दश तानि वै ॥ ३८१ ॥
सह सुपार्श्वस्य त्रिंशता पूर्विणश्चतुः । चत्वारिंशत्सहस्राणि लक्षे नवशतैः सह ॥ ३८२॥ शिक्षका विंशतिः प्राप्ताः सहस्राणि नवावधिं । एकादश सहस्राणि त्रिशती केवलान्विताः ॥ ३८३ ॥ शतं पंचाशता पंच सहस्राणि दशापि च । वैक्रियाविपुलाद्याः षट् शती नवसहस्रकैः || ३८४|| वादिनोष्टसहस्राणि ततचंद्रप्रभस्य तु । पूर्विणो द्वे सहस्रे तु शैक्षालक्षे चतुःशती ॥ ३८५ ॥ संघावष्टसहस्राणि पृथक सविपुलावधी । देशकेवलिनस्तानि वैक्रियास्तु चतुःशती ।। ३८६ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org