________________
हरिवंशपुराण ।
७३३
पष्टितमः सर्गः । ज्ञेयाः सप्त सहस्राणि षट् शतानि च वादिनः । सुविधेः पूर्विणः पंच दशशत्युपवर्णिता ॥३८७।। लक्षका पंच पंचाशत्सहस्राणि शतानि च । पंच शिक्षकसाधूनामवधिज्ञानिनोष्ट तु ॥ ३८८ ॥ सहस्राणि चतुःशत्या पंचशत्या तु सप्त वै । सहस्राण्याप्तकैवल्याः स्युस्त्रयोदश वैक्रियाः ॥३८९ ॥ षट् सहस्राणि विपुलां पंचशत्या मतिं श्रिताः। वादिनः षट् शतैः सप्त सहस्राणि विनिश्चिताः॥३९०॥ शीतलस्य चतु:शत्या सहस्रं पूर्ववेदिनः । द्विशत्येकानषष्टिस्तु सहस्राणि सुशिक्षकाः ॥३९१॥ द्विशत्या सावधिः संघसहस्राणि हि सप्त सः । सप्तकेवलिनस्तानि द्वादशैतानि वैक्रियाः ॥३९२॥ पंचशत्या सहस्राणि सप्तैते विपुलेश्वराः । सप्तशत्या सहस्राणि पंच सहादवादिनः ॥३९३ ॥ त्रयोदश शतानि स्युः पूर्विणः श्रेयसोऽष्टभिः चत्वारिंशत्सहस्राणि द्विशती शैक्षसाधवः ॥३९४॥ सावधिः षट् सहस्राणि गणः केवलिनामपि । पंचशत्या सहस्राणि तथैकादश वैक्रियाः॥३९५॥ ततोन्ये षट् सहस्राणि पंच तानि ततः परे । शतानि द्वादशैव स्थुर्वासुपूज्यस्य पूर्विणः॥३९६॥ द्विशत्या शिक्षकास्त्रिंशत्सहस्राणि नवापि च । चतुःशत्या सहस्राणि पंच सावधयो मता॥३९७।। सर्वज्ञाः षद् सहस्राणि वेक्रियाः दश षट् परे । वादिनस्तु सहस्राणि चत्वारि द्विशती तथा ॥३९८॥ शतान्येकादश ज्ञेया विमलस्य तु पूर्विणः । अष्टात्रिंशत्सहस्राणि पंचशत्या तु शैक्षकाः ॥३९९।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org