________________
हरिवंशपुराणं ।
पष्टितमः सर्गः । अष्टाशत्या सहस्राणि चत्वार्यवधिलोचनाः । पंचशत्या सहस्राणि पंच केवलिनो नव ॥४००॥ वैक्रियाश्च सहस्राणि ततोन्ये केवलिप्रमाः। वादिनस्विसहस्री च षद् शती च विनिश्चिता ॥४०१॥ पूर्विणोऽनंतनाथस्य सहस्रगणनाः स्मृताः । पंचशत्या सहस्राणि त्रिंशन्नव च शिक्षकाः॥४०२॥ स्याञ्चत्वारि सहस्राणि त्रिशत्या सावधिर्गणः । अन्ये पंचाष्टपंचत्रिसहस्रान्यंतगे शते ॥ ४०३ ॥ शतानि नव धर्मस्य पूर्विणः शिक्षकाः पुनः । चत्वारिंशत्सहस्राणि तथा सप्तशतानि च ॥४०४।। षट् शतानि सहस्राणि त्रीणि सावधयः स्मृताः।पंचशत्या सहस्राणि चत्वारि सकलेक्षणाः॥४०५॥ संतः सप्तसहस्राणि वैक्रिया विपुलान्विताः । पंचशत्या तु चत्वारि द्विसहस्रपष्टशत्यतः॥४०६।। पूर्विणोऽष्टशती शांतेरष्टशत्यात्र शिक्षकाः । चत्वारिंशत्सहस्न्येकं त्रिसहस्रीगणः परः ॥४०७ ॥ चत्वारि षट् चत्वारि द्वे सहस्र चतुःशती। कुंथोस्तु सप्तशत्येव पूर्विणः शिक्षकाः पुनः॥४०८॥ चत्वारिंशत्सहस्राणि त्रीणि पंचशता शतं । सावधिः पंचशत्या तु द्वे सहस्र गणो मतः॥४०९॥ त्रिसहस्री द्विशत्या तु गणः केवलिनां स्मृतः । शतकं वैक्रिया:पंच सहस्राणि च संमताः॥४१०॥ त्रिशत्या त्रिसहस्री तु पंचाशद्विपुलेश्वराः । वादिनां जितवादीनां सहस्रद्वितयी मता ॥ ४११॥ पूज्यः पूर्वभृतोरस्य षट्शती तु दशोत्तरा । शैक्षास्तु पंचायत्रिंशत्सहस्ररष्टभिः शतैः ॥ ४१२ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org