________________
हरिवंशपुराणं।
७३५
षष्टितमः सर्गः। पंचत्रिंशन्मताः सर्वे सावधिः परिषत्पुनः । सकेवलावधिज्ञेया द्विसहस्न्यष्टशत्यपि ॥ ४१३ ॥ वैक्रियास्तु सहस्राणि चत्वारि त्रिशती तथा । सहस्रे पंच पंचाशन्मत्या विपुलयान्विताः ४१४॥ शतानि षोडशैव स्युर्वादिनः पटुवादिनः । मल्लेस्तु पूर्विणः सर्वे पंचाशत् सप्तशत्यपि ॥४१५॥ एकान त्रिंशदुद्दिष्टाः सहस्राणि तु शिक्षकाः । द्वाविंशतिः शतानि स्युर्मुनयोऽवधिचक्षुषः॥४१६॥ सहस्रे षट् च शत्यामा पंचाशच्च सकेवला । चतुःशत्या सहस्रं तु वैक्रिया यतयो मताः ॥४१७॥ द्वे सहस्रे शते द्वे च मता विपुलबुद्धयः । तावंत एव जेतारो वादिनः प्रतिवादिनां ॥ ४१८ ॥ मुनिसुव्रतनाथस्य पूर्विणः पंचशत्यभूत् । शिक्षका शिक्षया युक्ता सहस्राष्येकविंशतिः॥४१९॥ अष्टादश शतान्येव मताः सावधिलोचनाः। द्वाविंशतिः पंचदश द्वादशैतान्यतः परे ॥४२०॥ पंचाशता शतानि स्युश्चत्वारि नमिपूर्विताः। षड्मिः शतैः सहस्राणि द्वादशैव तु शिक्षकाः॥४२१॥ शतानि षोडश ख्याताः केवलावधिलोचनाः । वैक्रियास्तु शतानि स्युस्तथा पंचदशैव तु।।४२२॥ शतानि द्वादश प्रोक्ताः पंचाशद्विपुलेक्षणाः । सहसपरिमाणास्तु वादिनः प्रतिवादिनां ॥४२३॥ चतुःशतानि नेमेस्तु पूर्विणः शिक्षकाः स्मृताः । एकादश सहस्राणि शतेरष्टभिरेव तु ॥ ४२४ ॥ सकेवलावधी संघौ सहस्र पंचशत्यपि । सहस्रं वैक्रियाश्चापि शतं च शुभवैक्रियाः ॥४२५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org