________________
हरिवंशपुराणं ।
७३६
षष्टितमः सर्गः ।
शतानि नव विज्ञेयाः शांता विमलबुद्धयः । वादिनोष्टौ शतानीह निःप्रतिप्रतिभान्विताः ||४२६ || पंचाशत्त्रिशती चापि स्युः पार्श्वस्य तु पूर्विणः । शैक्षा दश सहस्राणि शतानि नव च स्मृताः ४२७ चतुःशत्या सहस्रं तु निर्मलावधिबोधनाः । सहस्रं केवलालोका वैक्रियाश्च तथा मताः ॥ ४२८ ॥ शतानि सप्त पंचाद्विमला मलबुद्धयः । वादिनः षट् शतानि स्युर्वादन्यायविधौ बुधाः ||४२९|| वर्धमान जिनेंद्रस्य त्रिशती पूर्वधारिणः । शैक्षा नव सहस्राणि शतानि च नवोदिताः ॥ ४३० ।। त्रयोदश शतानि स्युरवधिज्ञानिनः परे । ये सप्त नव पंच स्युश्चत्वारि च शतानि वै ॥ ४३१ ॥ आर्यास्तिस्रोऽभवलक्षा जिनपंचकसंसदि । पंचाशद्विंशतिस्त्रिंशस्त्रिंशस्त्रिंशत्सहस्रकैः ।। ४३२ ।। चतस्रो विदिता लक्षाः पद्माभस्य सभांतरे । विंशतिश्च सहस्राणि सहस्राणि वरोचिषां ||४३३ || तिस्रस्त्रिंशत्सहस्राणि सप्तमस्य सभांबुधौ । ततः परं त्रयाणां तास्तिस्रोऽशीतिसहस्रकैः || ४३४ || स्याद्विंशतिसहस्रैस्तु लक्षैकान्यस्य संसदि । एका लक्षा त्रयाणां च पत्रिकाष्टसहस्रकैः || ४३५ || षष्टिसहस्राणि धर्मस्यापि चतुःशती । शांतेः षष्टिसहस्राणि शतानां त्रितयं तथा ॥ ४३६ || कुंथोः पष्टिसहस्राणि पंचाशच्च शतत्रयं । पुनः षष्टिसहस्राणि जिनस्यारस्य संसदि || ४३७|| मल्लेस्तु पंच पंचाशत्सहस्राणि सभांतरे । सहस्राण्येव पंचाशन्मुनिसुव्रतसंसदि || ४३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org